________________
RoXXXOXOXOXOXOXOXOXXX
सम्प्रति लक्षणमाहपंचासवप्पम(वु पा०)त्तो तीहिं अगुत्तो छसू अविरओ य। तिव्वारंभपरिणओ खुद्दो साहस्सिओ नरो
(निर्बुधसपरिणामो निस्संसो अजिइंदिओ पा०)॥१३१२ ॥ पञ्चाश्रवाः-हिंसाद्यास्तेषु प्रवृत्तः, अतस्त्रिभिः प्रस्तावात् मनोवाक्कायैरगुप्तः-अनियन्त्रितो मनोगुप्त्यादिरहित इत्यर्थः, तथा षट्सु पृथ्वीकायादिषु अविरतः-अनिवृत्तः, तदुपमर्दकत्वादेरिति गम्यं, अयं वा तीव्रारंभोऽपि स्यादत आह-तीवाः-उत्कटाः स्वरूपतोऽध्यवसायतो वा ये आरम्भाः-सावधव्यापारास्तत्परिणतः-तत्प्रवृत्त्या तदात्मतां गतः क्षुद्रः-सर्वस्याहितैषी कार्पण्ययुक्तो वा, सहसा अपर्यालोच्य गुणदोषान् प्रवर्तत इति साहसिकश्चौर्यादिकृदित्यर्थः, नर उपलक्षणः ख्यादि ॥२॥१३१२॥
Xकृष्णलेश्याया
लक्षणम् निबंधसपरिणामो, निस्संसो अजिइंदिओ (तिवारंभपरिणओ खुद्धो साहस्सिओ नरो पा०)।
एयजोगसामउत्तो कपहलेसं तु परिणमे ॥ १३१३ ॥ निद्वंधसत्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामो यस्य सः, नृशंसो-निस्तूंशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा परप्रशंसारहितः, उपसंहारमाह-एते च ते मनोवाक्कायव्यापारा एतद्योगाः-पश्चाश्रव* प्रवृत्तत्वादयस्तैः समिति भृशमाङित्याभिव्याप्त्या युक्तः-अन्वितः एतद्योगसमायुक्तः, तोरेवार्थत्वात् कृष्णलेश्यामेव परिणमेत् ,
तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात् स्फटिकवत् , तदुपरञ्जनात् तद्रूपतां भजेत् , एतेन पञ्चाश्रवप्रवृत्तत्वादीनां भाव
Jain Education International
For Privale & Personal use only
www.jainelibrary.org