________________
KO
उत्तरा० अवचूर्णिः ॥२८९॥
यथा कचस्य-करपत्रस्य स्पर्शः, गोर्जिह्वा गोजिह्वा तस्या यथा वा शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, अतोऽपिलेशाख्य स्पर्शादनन्तगुणोऽति-अतिशायितया यथाक्रमं लेश्यानां अप्रशस्तानां आद्यानां तिसृणां प्रक्रमात्स्पर्शः॥१८॥१३०९॥ चतुस्त्रिंशजह बूरस्स वि फासो नवणीयस्स व सिरीसकुसुमाणं । इत्तोवि अणंतगुणो पसत्थलेसाण तिण्हंपि ॥ १३१० ॥ मध्ययनम्
यथा बूरस्य वा प्रतीतस्य म्रक्षणस्य शिरीपो-वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, अतोऽप्यनन्तगुणो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपि स्पर्श इति प्रक्रमः, इह च यदनेकदृष्टान्तोपादानं तन्नानादेशजशिष्यानुग्रहार्थ क्वचिद्धि किञ्चित्प्रतीतमिति, यथा निगदितोदाहरणेषु वर्णादितारतम्यसम्भवाल्लेश्यानां स्वस्थानेऽपि वणादिवैचित्र्यज्ञापनार्थम् ॥ १९॥ १३१०॥
लेश्यानां परिणामद्वारमाह
स्पर्शपरिणामी तिविहो व नवविहो वा सत्तावीसइविहिकसीओ वा। दुसओ तेयालो वा लेसाणं होई परिणामो॥१३११ ॥ त्रिविधो वा नवविधो वा, विधशब्दस्य चोभयत्रसम्बन्धात्सप्तविंशतिविध एकाशीतिविधो वा, अत्रापि विधशब्दस्य सम्बन्धात्
॥२८९॥ त्रिचत्वारिंशद्विशतविधो वा लेश्यानां भवति परिणामस्तद्रूपगमनात्मकः, इह त्रिविधो जघन्यमध्यमोत्तमभेदेन, नवविधो यदेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणनात् , एवं पुनः पुनस्त्रिकगुणनया २७ विधवं ८१ विधत्वं, २४३ विधत्वं च भावनीयं, उपलक्षणं चैतदेवं, तारतम्यचिन्तायां सङ्ख्यानियमाभावात् ॥ २०॥१३११॥
XOXOXOKOKONKo-KOK
Jain Educati
o
nal
For Private & Personal use only
Kajainelibrary.org