________________
उक्तो रसः, सम्पति गन्धमाह
जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स ।
इत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥१३०७॥ यथा गवां मृतकं-शरीरं गोमृतकं तस्य गन्धश्च, श्वमृतकस्य वा यथा, अहिः-सर्पस्तन्मृतकस्य, गन्ध इति सम्बन्धः, सूत्रत्वात्कशब्दलोपे इतोऽप्येतत्प्रकारादपि गन्धादनन्तगुणो लेश्यानामप्रशस्तानां-अशुभानां कृष्णनीलकापोतानां गन्ध इति प्रक्रमः, आसामप्रशस्तत्वविशेषादनुक्तोऽपि गन्धस्य विशेषो ज्ञेयः॥ १६ ॥१३०७॥
जह सुरहिकुसुमगंधो गंधवासाण(गंधणां च पा०)पिस्समाणाणं ।
इत्तो वि अणंतगुणो पसत्थलेसाण तिण्हंपि ॥ १३०८॥ यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धिपुष्पानां गन्धः-परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्च कोष्ठपुटपाकनिष्पन्नाः वासाश्चेतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषां, पिष्यमाणानां-चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलः प्रादुर्भवतीत्येवमुक्तं, इतोऽप्येतत्प्रकारादपि गन्धादनन्तगुणः प्रशस्तलेश्यानां तिसृणामपि तैजसीपद्मशुक्लानां गन्ध इति प्रक्रमः, इहाप्यासा प्रशस्तत्वविशेषादनुक्तो गन्धविशेषो ज्ञातव्यः ॥ १७ ॥ १३०८ ॥
सम्प्रति स्पर्शनमाहजह करगयस्स फासो गोजिन्भाए व सागपत्ताणं । इत्तोवि अणंतगुणो लेसाणं अप्पसत्थाणं ॥ १३०९॥
लेश्यानां
गन्धाः
उत्तरा०४९
Jain Education International
For Private & Personal use only
www.jaineibrary.org