________________
COM
उत्तरा० अवचूर्णिः
लेश्याख्यं चतुस्त्रिंशमध्ययनम् ३४
॥२८८॥
वा विकल्पे, अपिः पूरणे, यादृशको रस इति प्रक्रमः, इतोऽप्यनन्तगुणो रसस्तु कापोताया ज्ञातव्यः, अतिशयकषाय इत्याशयः॥१२॥ १३०३ ॥
जह परिणयंबगरसो पक्ककवित्थस्स वावि जारिसओ । इत्तोवि अणंतगुणो रसोउ तेऊइ नायव्यो॥१३०४॥ __ यथा परिणतं-परिपक्वं यदायकं तदुरसः पक्ककपित्थस्य वाऽपि यादृशको रस इति प्रक्रमः, अतोऽप्यनन्तगुणो रसस्तु तैजस्या ज्ञातव्यः, अम्लः किञ्चिन्मधुरश्च ॥ १३ ॥ १३०४॥
वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो इत्तो पम्हाइ परएणं (इत्तोवि अणंतगुणो रसो उ पम्हाइ नायब्बो पा०)॥१३०५॥ वरवारुण्याः-प्रधानसुराया वा रसो यादृशक इति योगः, विविधानां वा आसवानां-पुष्पप्रभवमद्यानां यादृशो रसः, मधु-मद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशः, इतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमात् रसः, परकेणंति-अनन्तगुणत्वात्तदतिक्रमेण वर्तते इति शेषः, अयं च किञ्चिदम्लकषायो माधुर्यवांश्चेति भावनीयम् ॥१४॥१३०५॥
खज्जूरमुद्दियरसो खीररसो खंडसक्कररसो वा । इत्तो उ अणंतगुणो रसो उ सुक्काइ नायव्यो॥१३०६॥ खर्जूरश्च प्रतीतो मुद्वीका च-द्राक्षा एतद्रसः, तथा क्षीररसा प्रतीतः, खण्ड-च इक्षुविकारः शर्करा च-कासादिप्रभवा तद् रसो वा यादृश इति शेषः, इतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्यः, अत्यन्तमधुर इत्यर्थः ॥ १५॥ १३०६॥
लेश्यानां रसाः
FOXOXOXOXOXOXOXOXOXOXOXO
॥२८८॥
Sain Educati
o nal
For Private & Personal use only
vjainelibrary.org