________________
उत्तरा० अवचूर्णिः
अथ लेश्याख्यं चतुस्त्रिंशमध्ययनम् ।
|लेश्याख्य चतुस्त्रिंशमध्ययनम्
३४
॥२८६॥
लेझ्यानां नामादिप्ररूपणप्रतिज्ञा
BXOXOXOXOXOXOXOXOXOXOXOXOX
अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्ता अत्रोच्यन्तेलेसज्झयणं पवक्खामि, आणुपुर्दिव जहक्कम । छहंपि कम्मलेसाणं, अणुभावे सुणेहि मे ॥ १२९२ ॥ दारगाहा ॥ __ लेश्याध्ययनमिदं लिश्यते-श्लिश्यते आत्मा कर्मणा सहानयेति लेश्या-कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, यदुक्तं-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्या शब्दः प्रवर्त्तते ॥१॥” इति, तदभिधायकमध्ययनं लेश्याध्ययन, तत् प्रवक्ष्यामि प्रकर्षण, तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये आनुपूा-यथाक्रममिति प्राग्वत् । तत्र पण्णामपि कर्मलेश्यानां-कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणां अनुभावान्-रसविशेषान् शृणुत मे-मम कथयत इति शेषः॥१॥ १२९२ ॥
तदनुभावाश्च नामादिप्ररूपणातः कथिता एव स्युरिति तद्वारमाहनामाइं वण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिई गइंच आउं,लेसाणं तु सुणेह मे ॥१२९३ ॥ दारगाहा ॥
नामानि, वर्णः-कृष्णादिः, रसः तिक्तादिः, गन्धः सुरभ्यादिः, स्पर्शः कर्कशादिः, परिणामो-जघन्यादिः, लक्षणं पञ्चाश्रवसेवनादि, एषां समाहारे वर्णरसगन्धस्पर्शपरिणालक्षणं, स्थानमुत्कर्षापकर्षरूपं स्थिति अवस्थानकालं, गतिं च नरकादिकां यतो
॥२८६॥
Jain Educati
o
nal
For Private & Personal use only
Yamjainelibrary.org