SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Jain Educati X-X XOX स्यातां, न त्वेकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवात्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद्गृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह -सुब्व्यत्ययात् सर्वैरपि प्रदेशैः प्रक्रमादात्मनः सर्व ज्ञानावरणादि सर्वेण गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण बद्धकं क्षीरोदकवदात्मप्रदेशैः श्लिष्टम् ॥ १८ ॥ १२८४ ॥ सम्प्रति कालमाह उदहीसरिसनामाणं, तीसई कोडिकोडीओ । उक्कोसिया होइ ठिई, अंतमुहुत्तं जहन्निया ॥ १२८५ ॥ उदहीत्यादि गाथा ५, उदधिना सदृग् नाम येषां तानि सागरोपमाणि तेषां त्रिंशत्कोटी कोट्यः उत्कृष्टा स्थितिः - अवस्थानं भवति, तथा मुहूर्त्तस्यान्तरं अन्तर्मुहूर्त्त न्यूनमित्यर्थः, जघन्यैव जघन्यिका प्रक्रमात् स्थितिः ॥ १९ ॥१२८५ ॥ केषामित्याह आवरणिजाण दुहंपि, वेयणिज्जे तहेव य । अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥ १२८६ ॥ आवरणीययोर्ज्ञानदर्शनविषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानं तत् अनयोरर्थस्य तत्त्वतोऽभिन्नत्वात्, अत्र वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ता, अन्ये तु द्वादश मुहूर्त्तमानैवैतामिच्छन्ति, तदाशयं न विद्मः ॥ २० ॥ १२८६ ॥ उयही सरिसनामाणं, सत्तरिं कोडिकोडिओ | मोहणिज्जस्स उक्कोसा, अंतमुद्दत्तं जहन्निया ॥ १२८७ ॥ उदधिसदृशनाम्नां सागरोपमाणां सप्ततिः कोटी कोट्य मोहनीयस्य ॥ २१ ॥ १२८७ ॥ ational For Private & Personal Use Only XXXXXX ******* कर्मणां स्थितिनिरूपणम् jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy