________________
8*
उत्तरा० अवचूर्णिः ॥२८४॥
कर्मप्रकृतिनामाध्ययनम् ३३
6xOXXXXXXXX
सम्प्रति क्षेत्रमाह
सव्वजीवाण कम्मं तु, संगहे छहिसागयं । सब्वेसुवि पएसेसु, सव्वं सब्वेण बद्धगं ॥ १२८४ ॥ सर्वजीवानां कर्म तुः पूरणे सङ्ग्रहे-बन्धे सङ्ग्रहणक्रिवायां, योग्यं भवतीति शेषः, यद्वा सर्वजीवाः, णेत्यलङ्कारे कर्म संगहेतिसङ्गहन्ति, कीदृशं सदित्याह-पण्णां दिशानां समाहारःषदिशंतत्र गतं, अत्र चतस्रो दिशः पूर्वाद्याः ऊोधो द्वयं चेति षट् , इदं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्मपुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढाः, भिन्नदेशस्य तद्भावपरिणामाभावात् , अल्पत्वाच्चेह विदिशामविवक्षितत्वेन पदिशागतमित्युक्तिः, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, इह च क्षेत्रप्रस्तावे यद्दिग्निरूपणं तच्चासामाकाशादभेदज्ञापनार्थ, तद्भेदेन तासामप्रतीतेः, तथा * च दिशां द्रव्यान्तरत्वमपास्तं, तथा पदिग्गतमपि द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् तथा चागमः-"एगेंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिसिं करेइ ?,गोअमा!सिअतिदिसि सिअ चउदिसिं सिअ पंचदिसि सिअ छद्दिसिं करेइ, बेंदिअतेंदिअचरिंदिअपंचिंदिआ निअमा छद्दिसिं"ति, तच्च दिग्गतं सर्वेष्वपि प्रदेशेषु अर्थादाकाशस्यात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं स्यात् , ते तत्संगृह्णन्ति, तथा सर्व ज्ञानाबरणादि, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुद्गलान् सामान्येनादाय तान्येवाध्यवसायविशेषात् पृथग् २ ज्ञानावरणादिरूपत्वेन परिणमयति, यच्चैवंविधं कर्म संगृहीतं तत्कैश्चिदात्मप्रदेशैर्वद्धं स्यादुत सर्वेणात्मनेत्याह-सर्वेण-समस्तेन, प्रक्रमादात्मना बद्धं-क्षीरोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकं अन्योन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगी
प्रदेशग्रहणक्षेत्रस्वरूपम्
॥२८४ा
Jain Educati
o
nal
For Private & Personal use only
jainelibrary.org