________________
प्रदेशाग्रखरूपम्
इत्थं प्रकृतयोऽभिहिताः, सम्प्रति एतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाह
एयाओ मूलपयडीओ, उत्तराओ अ आहिया । पएसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥ १२८२॥ एता अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयस्तथा उत्तरा उत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनां अप्यक्षरानक्षरादिबहुभेदसूचकः आख्याताः, प्रदेशाः-परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, क्षेत्रकालौ च, तत्र च क्षेत्रं-आकाशकालश्च बद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः, भावं च-अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रिस्थान, कादिरसमिति यावत् , अत उत्तरमिति अतः-प्रकृत्यभिधानादूर्ध्व शृणु कथ्यमानमिति शेषः ॥ १६॥ १२८२॥ तत्र प्रदेशाग्रमाह
सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं ।
गंठियसत्ताईयं (गंठि(प)सत्ताऽणाइ पा०), अंतो सिद्धाण आहियं ॥१२८३ ॥ चः-पूरणे, एवोऽप्यर्थः, ततः सर्वेषामपि कर्मणां ज्ञानावरणादीनां प्रदेशाग्रं-परमाणुपरिमाणं, अनन्तमेव अनन्तकं अनन्ताणुनिष्पन्नत्वात्तद्वर्गणानां, तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः-घनरागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिसत्त्वाः, ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाविधानेन न कदाचिदुपरिष्टागन्तारः, ते चाभव्या एवात्र गृह्यन्ते, तानतीतं-तेभ्योऽनन्तगुणत्वेनातिकान्तं ग्रन्थिगसत्त्वातीतं, तथा अन्तः सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वात् , अतः सङ्ख्यामपेक्ष्य सिद्धान्तर्वति तदनन्तकमुच्यते, एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत् ॥१७॥१२८३
I-KO-KOKOKO-KI-KO-XOXOXOKOKSATTA
Jain Educatio
n
al
For Privale & Personal use only
ainelibrary.org