________________
कर्मप्रकृतिनामाध्ययनम्
३३
उत्तरा० शुभस्यापि बहवो भेदाः, एवमेवाशुभस्यापि, तदपि बहुभेदमिति भावः, तत्रोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि मध्यमविवअवचूर्णिः क्षया मनुष्यगतिदेवगत्यादयः सप्तत्रिंशद्भेदाः, तथा अशुभनाम्नोऽपि मध्यमविवक्षया नरकगतितिर्यग्गत्यादिचतुस्त्रिंशद्भेदाः
॥१३॥ १२७९॥ ॥२८ ॥
गोयं कम्मं दुविह, उच्च नीयं च आहियं । उच्चं अट्टाविहं होइ, एवं नीयपि आहियं ॥ १२८०॥ * गोत्रं कर्म द्विविधं, उच्चमिक्ष्वाकुजात्यादि, नीचं तद्विपरीतं आख्यातं, तत्रोच्चम्-उच्चैर्गोत्रं अष्टविधं भवति, एवं नीचमपि
नीचर्गोत्रमपि आख्यातं, अष्टविधत्वमुच्चनीचैर्गोत्रयोबन्धहेत्वष्टविधत्वाद, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव जातिमदादयो नीचैर्गोत्रस्य ॥ १४ ॥ १२८० ॥
दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमन्तरायं, समासेण विवाहियं ॥१२८१॥ दाने लाभे च भोगे-सकृद्धोग्यपुष्पाहारादिविषये, उपभोगे-पुनःपुनरुपभोग्यभवनाङ्गनादिविषये, तथा विशेषेण ईर्यते-चेष्ट्यते अनेनेति वीर्य तस्मिन् , तथा समुच्चये, सर्वत्र अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्र दानान्तराय-यत् सति विशिष्टे गृहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दानप्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावनिपुणेऽपि याचितरि उपलब्धिउपघातकृल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्पद्यमाने वा आहारमाल्यादौ यद्वशात् न भुते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालङ्कारादि नोपभुले, बीर्यान्तरायं यद्वशात् बलवान् नीरुग्वयः| स्थोऽपि तृणकुब्जीकरणेऽप्यसमर्थः ॥१५॥ १२८१॥
KUKUKKUKUKKU-KO-KI-KAR
गोत्रान्तराययोर्भेदाः
R॥२८३॥
in EducatURAL
For Privale & Personal use only
MaMjainelibrary.org.