SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उत्तरा०४८ " चरित्रे मुह्यतेऽनेनेति चरित्रमोहनं कर्म, उत्तरत्र तुशब्दस्य भिन्नक्रमत्वात् पुनर्द्विविधं व्याख्यातं कथमित्याह - कषायाःक्रोधादयस्तद्रूपेण वेद्यते - अनुभूयते यत्तत्कषाय वेदनीयं, चः समुच्चये, नोकषायमिति प्रस्तावात् नोकषायवेदनीयं, तथा समुच्चये, एवेति पूरणे ॥ १० ॥ १२७६ ॥ अनयोरपि भेदानाह सोलस विहमेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नो कसायजं ॥ १२७७ ॥ षोडशविधः-षोडशप्रकारो यो भेदो-नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन, प्राकृतत्वात् बिन्दुलोपः, कर्म, तुः पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायते इति कषायजं कषायवेदनीयमित्यर्थः, प्राकृतत्वात् बिन्दुलोपात् सप्तविधं नवविधं वा कर्म पुनर्नोकायजं - नोकपायवेदनीयं तत्र सप्तविधं हास्य १रत्य २ रति३ भय ४शोक ५ जुगुप्साः ६ षट् वेदश्च सामान्यविवक्षयैक एवेति, पुंस्त्रीनपुंसकेति वेदत्रयविवक्षायां तु षस्त्रियो मीलिता नव भवन्तीति नवविधम् ॥ ११ ॥ १२७७ ॥ नेरइयतिरिक्खाऊ, मणुस्साउं तहेव य । देवाऊयं चउत्थं तु, आउकम्मं चव्विहं ॥ १२७८ ॥ आयुः शब्दः प्रत्येक शब्दे योज्यस्ततो नैरयिकायुः, तिर्यञ्चः - एकेन्द्रियादयस्तेषामायुस्तिर्यगायुः, मनुष्यायुः, तथैव च तद्भवावस्थितिहेतुतयैव, देवायुः चतुर्थ, तुः पूरणे, एवं चायुष्कर्म चतुर्विधम् ॥ १२ ॥ १२७८ ॥ Jain Educationtional नामकम्मं दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्सवि ॥ १२७९ ॥ नामकर्म द्विविधं कथमित्याह - शोभते सर्वावस्थासु अनेनात्मेति शुभं अशुभं च तद्विपरीतं व्याख्यातं शुभस्य त्विति For Private & Personal Use Only **** XXX-8 BX BX X X चारित्रमोहनीयनामायु:कर्मणां भेदाः lainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy