________________
उत्तरा० अवचूर्णिः
कर्मप्रकृति
नामाध्ययनम्
॥२८२॥
३३
वेयणियंपि हु (य) दुविहं, सायमसायं च आहियं । सायस्स उ बहभेया, एमेवासायस्सवि ॥१२७३॥ वेदनीयं-वेदनीयकर्मापि, चः पूरणे, द्विविधं-द्विभेदं, सात-सुखं शारीरं मानसं च, इहोपचारात्तन्निबन्धनं काप्येवमुक्तं, असातं चैतद्विपरीतं आख्यातं तीर्थकृद्भिरिति शेषः, तोरप्यर्थत्वात्सातस्यापि बहवः-भेदाः, न केवलं ज्ञानदर्शनयोरित्यपेरर्थः, तेच तद्धेतुभूतभूतानुकम्पादीनांबहुभेदत्वात् , एवमेव बहव एव भेदा असातस्यापि, दुःखशोकतापादितद्धेतुबहुविधत्वादेव ॥७॥१२७३॥
मोहणीयंपि य दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ १२७४ ॥ मोहनीयमपि द्विविध, द्वैविध्यमाह-दर्शने-तत्त्वरुचिरूपे चरणे-चारित्रे, तथा च, कोऽर्थः?, दर्शनमोहनीयं चारित्रमोहनीय च, तत्र दर्शने-दर्शनविषयं प्रक्रमात् मोहनीयं त्रिविधमुक्तं, चरणे-चरणविषयं मोहनीयं द्विविधं भवेत् ॥८॥१२७४॥
यथा दर्शनमोहनीयत्रैविध्यं तथाह
सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिजस्स दंसणे ॥१२७५ ॥ सम्यग् भावः सम्यक्त्वं-शुद्धदलिकरूपं यदुदये तत्त्वरुचिःस्यात्, चैवेति पूरणे, मिथ्यात्वम्-अशुद्धदलिकरूपं, यतस्तत्त्वे अतत्त्वमतत्त्वे तत्त्वमिति बुद्धिरुत्पद्यते, सम्यमिथ्यात्वमेव च-शुद्धाशुद्धदलिकरूपं, यत् उभयस्वभावता जन्तोः स्यात् , इहच सम्यक्त्वादयो जीवधर्माः तद्धेतुत्वाच्च दलिकेष्वेतद्व्यपदेशः, एताः पूर्वोक्तास्तिस्रःप्रकृतयो मोहनीयस्य दर्शने-दर्शनविषयस्य ॥९॥१२७५॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं (चारित्तमोहणिज्जं दुविहं, वोच्छामि अणुपुव्वसो पा०)।
कसायमोहणिजं च, नोकसायं तहेव य ॥१२७६ ॥
वेदनीयदर्शनमोह
भेदाः
॥२.
८२॥
XOXOXO
w
For Private&Personal Use Only
Jain Educa
.lainelibrary.org
t ional