SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ज्ञानदर्शनावरणभेदाः PAIKOKEKOOKSKO-KOKOKOKOXOXOOKa गाथा १२, ज्ञानावरणं पञ्चविधं-पञ्चप्रकार, तच्च कथं पञ्चविधमित्याशङ्कायां आवार्यभेदादेवेहावरणभेद इत्याशयेनेहावार्यस्य ज्ञानस्य भेदानाह-श्रुतं, आमिनिबोधिकं-मतिज्ञानं, अवधिज्ञानं तृतीयं, मनोज्ञानं च, केवलं-केवलज्ञानम् ॥ ४॥ १२७० ॥ निद्दा तहेव पयला निद्दानिद्दा य पयलपयला य । तत्तो य थीणगिद्धी पंचमा होइ नायव्वा ॥१२७१॥ निद्राणं निद्रा-सुखप्रतिबोधा, तथैवेति-तेनैव निद्रावत्किञ्चित् शुभरूपताप्रकारेण प्रचलत्यस्यामासीनोऽपि प्रचला, यदुक्तं “पयला होइ ठिअस्स” उत्ति, निद्रानिद्रा चातिशयनिद्रा दुःखप्रतिबोधात्मिका, अतिशयख्यापनार्थ द्विरुच्चारणं, प्रचला २ चातिशयप्रचला, सा हि चङ्गम्यमाणस्यापि स्यात् , चशब्दावुभयत्र तुल्यताख्यापकौ, द्वे अपि ह्यशुभतया तुल्ये एवेति, ततः प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्तिनीत्यर्थः, चस्य भिन्नक्रमत्वात् स्त्याना-संहतोपचिता गृद्धिर्यस्यां स्त्यानगृद्धिश्च, एतदुदये * वासुदेवबलार्द्धबलः प्रबलरागद्वेषोदयवांश्च जन्तुर्जायते, अत एव च परिचिन्तितार्थसाधन्यसावुच्यते, तुः पूरणे, पञ्चमी भवति ज्ञातव्या ॥५॥ १२७१॥ चक्खुमचक्खूओहिस्स दसणे केवले य आवरणे। एवं तु नवविगप्पं नायव्वं सणावरणं ॥१२७२॥ ___ मोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति तस्य दर्शने-स्वस्वविषयसामान्यपरिच्छेदे दर्शने इति प्रत्येक योज्यते, तथा केवले च-प्रक्रमात् केवलदर्शने सर्वद्रव्यपर्यायाणां सामान्यावबोधे, आवरणं चक्षुर्दर्शनादिविषयं, एवं अनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधात्मकेन प्रकारेण तुः-पूरणे नव विकल्पा-भेदा यस्य तन्नवविकल्पं ज्ञातव्यं दर्शनावरणम् ॥ ६॥ १२७२ ॥ *6XOXOXOXOXOXXXX Ko Sain Education stational For Privale & Personal use only T ur.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy