SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः कर्मप्रकृति नामाध्ययनम् ३३ ॥२८॥ नमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तं, आयति-आगच्छति स्वकर्माप्तनरकादेर्निष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुस्तदेव कर्म, तथैव च, नमयति गत्याद्यनेकभावानुभवनं प्रत्यात्मानं चित्रकर इव हस्त्यादिभावं प्रति रेखाकृतिमिति नामकर्म, चः समुच्चये, गीयते-शब्द्यते उच्चावचैः शब्दैः कुलालादिवद् मृद्रव्यमत आत्मेति गोत्रं च, अन्तरा दातृग्राहकयोर्भाण्डागारिकवद्विघ्नहेतुतया अयते-च्छतीत्यन्तरायं, तथैव च सर्वत्रासदपि कर्मेति सम्बध्यते, उपसंहारमाह-एवमेतानि कर्माणि अष्टैव, तुः पूरणे समासतः सङ्केपेण, विस्तरस्तु यावन्तो जन्तुभेदास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः, अत्र च ज्ञानदर्शनस्वतत्त्वोऽयमात्मा इत्यन्तरङ्गत्वात्तयोरादितस्तदावरणोपादानं, तुल्येऽपि तयोरन्तरङ्गत्वे ज्ञानोपयोग एव सर्वलब्धीनामवाप्तिरतो ज्ञानस्य प्राधान्यात्तदावरणस्य प्राग , तदनु दर्शनावरणस्य, ततः केवलिनोऽपि सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्य, ततोऽपि प्रायः संसारिणामिष्टानिष्टविषयसम्बन्धात् सुखदुःखे स्यातां, इष्टानिष्टता च रागद्वेषाभ्यां, तद्रूपं च प्रायो मोहनीयमिति तस्य, ततश्चैतत्प्रकर्षापकर्षभावित्वादायुर्निबन्धनानां बहारम्भपरिग्रहत्वादीनां तदुद्भवं चायुष्कमिति तस्य, तदु| दयश्च प्रायो गत्यादिनामोदयाविनाभावीति ततो नाम्नः, ततोऽपि च नरकादिनामोदयसहभाव्येव गोत्रोदय इति गोत्रस्य, ततश्चोच्चनीचभेदभिन्नात्यायो दानादिलब्धिभावाभावी तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति तदनु अन्तरायस्येति |॥२-३ ॥ १२६८-६९॥ कर्मणो मूलप्रकृतीरुत्वोत्तरप्रकृतीराहनाणावरणं पंचविह, सुझं आभिणिबोहियं । ओहिनाणं तईयं, मणनाणं च केवलं ॥ १२७०॥ कर्माष्टकस्वरूपम् ॥२८॥ Jain Education MHAND For Private & Personal use only adjainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy