________________
तत्क्षयाच्च कं गुणमवाप्नोतीत्याह
सव्वं तओ जाणइ पासई य, अमोहणो होइ निरंतराए ।
अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥ १२६४ ॥
सर्वं ततो ज्ञानावरणादिकर्मक्षयात् जानाति विशेषरूपतया, पश्यति च सामान्यरूपतया, तथा चामोहनो-मोहरहितो भवति, निरन्तरायो - निर्गतान्तरायोऽनाश्रवः, ध्यानं-शुक्लध्यानं तेन समाधिः - परमस्वास्थ्यं तेन युक्तः सहितो ध्यानसमाधियुक्तः, आयुषः उपलक्षणाद् नामगोत्रवेद्यानां च क्षये सति मोक्षमुपैति, शुद्धो-विगतकर्ममलः ॥ १०९ ॥ १२६४ ॥
Jain Educationational
मोक्षगतश्च यादृशः स्यात्तदाह
सो तस्स सव्वस दुस्स मुक्खो, जं बाहई सययं जंतुमेयं । दीहामयविमुको सत्थो, तो होइ अचंतसुही कयत्थो । १२६५ ॥
स मोक्षप्राप्तो जन्तुः सुब्व्यत्ययात् तस्मात् जातिजरामरणरूपत्वेन प्रतिपादितात् सर्वस्मात् दुःखात् मुक्तः- पृथग्भूतः, यः कीदृगित्याह-यदुःखं बाधते- पीडयति सततं - अनवरतं जन्तुं एतं प्रत्यक्षं, दीर्घाणि यानि स्थितितः प्रक्रमात् कर्माणि तान्यामया |इव-रोगा इव विविधबाधाविधायितया तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः - प्रशंसार्हः, ततः किमित्याह - तो | इति ततो दीर्घामयविप्रमोक्षाद्भवति, अन्तं-अतिक्रान्तं अत्यन्तं तादृग् सुखमस्यास्तीति सः, अत एव कृतार्थः ॥ ११० ॥ १२६५ ॥
For Private & Personal Use Only
घातिक्षयात् क्रमेण मोक्षप्राप्तिः
www.jainelibrary.org