SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२७९॥ भावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्य-उद्यतस्येति सम्बन्धः, किमित्याह-सञ्जायते-समुत्पद्यते, समयंति आषत्वात् प्रमादसमतां-माध्यस्थ्य, तथा अर्थान-जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च-शुभध्यानविषयतया अध्यवस्यतः, तत इति स्थानमसमतायाः, से-तस्य साधोः प्रहीयते-प्रकर्षण हानि याति, काऽसौ ?, कामगुणादिषु-रूपादिषु तृष्णा-अभिलाषो लोभ इत्यर्थः, ध्ययनम् समतायां हि उत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति, यद्वा एवं-उक्तप्रकारेण समकं-एककालमुपस्थितस्य-उद्यतस्य * रागायुद्धरणोपायेष्विति प्रक्रमः, किमित्याह-स्वसंकल्पनां-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विकल्पना-विशेषेण छेदनं, आशु-शीघ्र सञ्जायते-भवति, तथा च को गुणः ? इत्याह-अर्थान्-रूपादीन् असङ्कल्पयतो-रागादिविषयतया अनध्यवस्यतः, रागद्वेषाभावे तत इति सङ्कल्पविकल्पनातः से-तस्य प्रहीयते कामगुणेषु तृष्णा ॥ १०७ ॥ १२६२ ॥ तृष्णाया कीदृशः सन् किं विधत्त इत्याह घातिकर्मासो वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं । भावश्च तहेव जं दरिसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १२६३ ॥ ___स प्रहीणतृष्णो-वीतरागद्वेषः स्यात् , तृष्णा हि लोभः, तत्क्षये च क्षीणकषायगुणस्थानावाप्तिरिति, तथा कृतसर्वकृत्य इव X ॥२७९॥ कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति-क्षयं नयति, ज्ञानावरणं क्षणेन-समयेन तथैव यद्दर्शनं-चक्षुर्दर्शनाद्यावृणोतिस्थगयति दर्शनावरणमित्यर्थः, यच्चान्तरायं-दानादिलब्धौ विघ्नं प्रकरोति कर्म अन्तरायनामकमित्यर्थः॥ १०८॥ १२६३ ॥ अभावः ततो in Education in materia For Private Personal use only Sainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy