SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २७८ ॥ इन्द्रियाण्येव चौरा धर्मसर्वस्वापहरणात्तद्वश्यः तदायत्त इन्द्रियचौरवश्यः, ईदृशस्य हि कल्प्यतपःप्रभावेच्छारूपेण प्रकारेण स्पर्शनादीन्द्रियवश्यताऽवश्यम्भाविनीति, एवं च वदतोऽयमाशयः - तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बने च तपःप्रभावं च वाञ्छतोऽपि न दोषः, यद्वा कल्पमुक्तरूपं नेच्छेत्, सहायलिप्सुर्यदि कथममी मे धर्मसहायाः स्युरिति एवमभिलाषुकमपि, आस्तां अन्यमिति भावः, जिनकल्पिकापेक्षं चैतत् एतेन रागहेतुपरिहरणमुक्तं, उपलक्षणं चैतदन्येषामपि रागहेतूनां द्वेषहेतूनां च परिहारस्य, ततः सिद्धं द्वयोरप्युद्धरणोपायानां तद्विपर्यये च दोषाणामभिधानम् ॥ १०४ ॥ १२५९ ॥ पूर्व रागद्वेषोद्धरणोपायविपर्यये दोष उक्तः, अधुना तु तमेव दोषान्तरहेतुतोक्तिद्वारेण समर्थयति तओसि जायंति पओअणाई, निमज्जिडं मोहमहन्नवंमि । सुहेसिणो दुक्खविणोय[ मुक्ख ]णट्ठा (मोयणाए पो० ), तप्पचयं (ओ पा० ) उज्जमए अरागी ॥। १२६० ॥ ततो-विकारापत्तेरनन्तरं से-तस्य जायन्ते - उत्पद्यन्ते प्रयोजनानि - विषयसेवनप्राणिहिंसादीनि, अन्तर्भावितण्यर्थत्वान्निमज्जितुं प्रक्रमात्तमेव जन्तुं मोहमहार्णवे, कोऽर्थो ?, यैर्मोहमहार्णवनिमग्न इव जन्तुः क्रियते स ह्युत्पन्नविकारतया मूढ एवासीत्, विषयासेवनादिप्रयोजनैश्च सुतरां मुह्यति, कीदृशस्यैतानि स्युरित्याह- सुखैषिणः-सुखाभिलषणशीलस्य, दुःखनोदनार्थ - दुःखपरिहारार्थ, सुखैषितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसम्भव इति भावः कदाचिदेवंविधप्रयोजनादपि तत्रायमुदासीन एव स्यादित्याशङ्कयाह तत्प्रत्ययं-उक्तरूपप्रयोजननिमित्तं च स्यैवार्थत्वात् उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी - रागवान्, उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सर्वानर्थमूलत्वात् ॥ १०५ ॥ १२६० ॥ Jain Education tional For Private & Personal Use Only bXoxoxox XOXOXOXO**** प्रमाद स्थानम ध्ययनम् ३२ रागद्वेषा अनर्थहेतु ॥ २७८ ॥ jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy