SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ रागद्वेषस्वरूपं तदुद्धरणो पायाश्च आपद्यते-प्राप्नोति, एवं-अमुना रागद्वेषवचालक्षणेन प्रकारेण अनेकरूपान्-बहुभेदाननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च, एवंविधानुक्तरूपान् विकारानिति गम्यं, कामगुणेषु सक्तः-अभिष्वङ्गवान् , उपलक्षणत्वात् द्विष्टश्च, अन्यांश्चैतत्प्रभवान् | क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन , कीदृशः सन्नित्याह-कारुण्यास्पदीभूतः दीन इत्यर्थः, हिरिमेत्ति-हीमान् लज्जावान् , कोपाधापन्नो हि विनाशादिकमिहैवानुभवन् परत्र च तद्विपाक-अतिकटुकं परिभावयन् प्रायोऽतिदैन्यं लजां च भजते, तथा वइस्सेत्ति आर्षत्वात् द्वेष्यः-तद्दोषदुष्टत्वात् सर्वस्याप्रीतिभाजनम् ॥१०२-१०३ ॥ १२५७-१२५८ ॥ यतश्चैवं रागद्वेषावेव दुःखमूलमतः प्रकारान्तरेणापि तयोरुद्धरणोपायं विवक्षुस्तद्विपर्यये दोषमाह कप्पं न इच्छिज्ज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं । एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१२५९ ॥ कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पो-योग्यस्तं, अपेर्गम्यत्वात् कल्पमपि, किं पुनरकल्पं शिष्यादीति गम्यं, नेच्छेत्-नाभिलषेत्, सहायलिप्सुः ममायं देहसम्बाधनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति-प्रस्तावात् व्रतस्य तपसो वा अङ्गीकारादुत्तरकालमनुतापः-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापात्मको यस्य सः पश्चानुतापः, चादन्यादृशश्च सम्भूतियतिवत् भवान्तरे भोगस्पृहयालुस्तपःप्रभावं प्रक्रमान्नेच्छेत् , यथा न शक्यमङ्गीकृतं त्यक्तुं, परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैव आमोषध्यादिलब्धिरस्तु, तदन्यापेक्षया अनु-भवान्तरे शक्रचक्रिविभूत्यादि भूयादिति, किमित्येवं निषिद्ध्यते इत्याह-एवं-उक्तप्रकारेण विकारान्-दोषान् अमितप्रकारान्-अनेकभेदान् आपद्यते-प्राप्नोति H Jain Educ ow.jainelibrary.org For Private & Personal Use Only a tional
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy