SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चक्षुरिन्दिरखरूपम् आह-एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरतया, ततो निवृत्तिर्दोषान्तरानारम्भो वा किमस्य स्यादित्याशङ्कयाह रूवे अतित्ते अ परिग्गहंमि, सत्तोवसत्तो न उवेइ तुहि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥१९८४ ॥ रूपेऽतृप्तश्च परिग्रहे च-तद्विषयमूर्छात्मके सक्तः-सामान्येनाऽऽसक्तिमान् , उपसक्तश्च-गाढं आसक्तस्ततः सक्तश्च-पूर्वमुपसक्तश्च पश्चात् सक्कोपसक्तो नोपैति-नोपगच्छति, तुष्टिं-सन्तोषं, तथा चातुष्टिरेव दोषस्तेनातुष्टिदोषेण दुःखी-यदि ममेदमिदं च रूपवद्वस्तु स्याद् इत्याकासातोऽतिशयदुःखवान् सन् , परस्य-अन्यस्य सम्बन्धि रूपवद्वस्त्विति गम्यं, यद्वा परेषां स्वं परस्वं प्रक्रमात् रूपवद्वस्तु तस्मिन् लोभो-गाद्ध्यं तेनाविल:-कलुषः परस्वलोभाविलः आदत्ते-गृह्णाति अदत्तं परकीयमेव रूपवस्त्विति गम्यं, अनेन विशेषतः परिग्रह आसक्तिरूपदोषान्तरारम्भ उक्तः॥ २९ ॥ ११८४ ॥ तकिमस्यैतावानेव दोष उतान्योऽपीत्याशङ्कयोक्तदोषानुवादेन दोषान्तरमेवाह तहाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य। मायामुसं वहुइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥११८५॥ तृष्णाभिभूतस्य-लोभपराजितस्य, तत एवादत्तं हरति-गृह्णातीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिन्निति योगः, चस्य भिन्नक्रमत्वात् अतृप्तस्य च, तत्रासन्तुष्टस्य मायाप्रधानं मृषा-अलीकभाषणं मायामृषा वर्द्धते-वृद्धिं | याति, कुतो ?, लोभदोषात्-लोभापराधात् , लुब्धो हि परस्वमादत्ते, आदाय च तद्गोपनपरो मायामृषां वक्ति, तदनेन लोभ Jain Education national For Privale & Personal use only Pow.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy