________________
उत्तरा० अवचूर्णिः
प्रमादस्थानमध्ययनम्
॥२७३॥
३२
जीवः, चराचरान्-त्रसस्थावरान् हिनस्ति-विनाशयति, अनेकरूपान्-जात्यादिभेदादनेकविधान , कांश्चित्तु चित्रैः-अनेकप्रकारैः स्वकायपरकायशस्त्रादिभिरूपायैरिति गम्यं, तान् चराचरजीवान् परितापयति-सर्वतो दुःखयति, अपरांश्च पीडयति, एकदेशदुःखोत्पादनेन, आत्मार्थ गुरुः-स्वप्रयोजननिष्ठः क्लिष्टो-रागबाधितः ॥ २७ ॥ ११८२ ॥ अन्यच्च
रूवाणुवाएण (रागेण पा०) परिग्गहेण, उप्पायणे रक्खणसंनिओगे।
वए विओगे य कहं सुहं से, संभोगकाले य अतित्त(त्ति पा०)लाभे ? ॥ ११८३ ॥ रूपविषयोऽनुतापः-अनुरागो रूपानुपातः तस्मिंश्च सति, णः पूरणे, परिग्रहेण-मूर्छात्मकेन हेतुना उत्पादने-उपार्जने रक्षणं च-अपायेभ्यो निवारणं, संनियोगश्च-स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसंनियोग तस्मिन् , व्यये-विनाशे वियोगे-विरहे सतोऽप्यनेककारणजनिते, सर्वत्र रूपस्येतिप्रक्रमः, व सुखं ?, न क्वचित्, किं तु सर्वत्र दुःखमेवेति भावः, से-तस्य जन्तोः, इयमत्र भावना-रूपमूछितो हि रूपवद्गजाश्वकलत्रादीनामुत्पादनरक्षणार्थ, तेषु क्लेशहेतूपायेषु जन्तुः प्रवर्तते, प्रवर्त्य च तदपायाशङ्कया पुनः पुनः परितप्यत एवेति सिद्धमेवास्योत्पादनादिषु दुःखं, मा भूत् , उत्पादनादिषु रूपस्य सुख, सम्भोगकाले तु भावीत्याशङ्कयाह-सम्भोगकाले च उपभोगप्रस्तावे च अतृप्तिलाभे-तृप्तिप्राध्यभावे सति, क सुखमिति सम्बन्धः, उत्तरोत्तरेच्छया हि परितप्यत एव रागी ॥२८॥११८३ ॥
चक्षुरिन्द्रियस्वरूपम्
॥२७३॥
Jain Education
a
nal
For Privale & Personal use only
ainelibrary.org