________________
B-K
प्तिरिति प्राप्तमित्याशयाह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमात् चक्षुषस्तदेव दोषो दुदान्तदोषस्तेन स्वकेन-आत्मीयेन जन्तुःन Xचक्षुरिन्द्रियकिश्चित् स्वल्पमपि रूपं प्रक्रमात् अमनोज्ञं अपराध्यति-दुष्यति, से-तस्य, यदि हि रूपमेवापराध्येत् तदान कस्यचिद्दोषाभावः
खरूपम् स्यात् , तथा च मुक्त्यभावादयो दोषा इति भावः ॥२५॥ ११८०॥
इत्थं रागद्वेषयोईयोरप्यनर्थहेतुत्वमुक्तं अधुना द्वेषस्यापि रागहेतुकत्वात्स एव महानर्थमूलमिति दर्शयंस्तस्य विशेषतः | परिहर्त्तव्यतामाह
एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागे॥ १९८१ ॥ एकान्तरक्तो यो न कथञ्चित् विरागं याति रुचिरे रूपे, किमित्याह-अतादृशे-अन्यादृशे स करोति, प्रदोष-द्वेषं सुंदरीनंद इव सुरसुन्दरीरागात्सुन्दा , तथा च दुःखस्य संपीडनं सङ्घातं उपैति बालः-अज्ञः, उक्तमेवार्थ व्यतिरेकेणाह-न लिप्यते-न श्लिप्यते तेन द्वेषकृतदुःखेन मुनिः विरागो-रागरहितः॥२६॥११८१॥ सम्प्रति रागस्यैव पापकर्महेतुतां वक्तुं हिंसाद्याश्रवनिमित्ततां पुनरिहैव तवारेण दुःखजनकत्वं च सूत्रषवेनाह
रुवाणुगासा( वाया पा०)णुगए य जीवे, चराचरेहिं सयणेगरुवे ।
चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तगुरू किलिट्टे ॥ ११८२ ॥ रूपं प्रस्तावात् मनोज्ञ अनुगच्छति रूपानुगा सा चासौ आशा च रूपानुगाशा, रूपविषयोऽभिलाष इत्यर्थः, तदनुगतश्च
AR
Jain Education
ational
For Privale & Personal use only
HOM.jainelibrary.org