________________
उत्तरा० अवचूर्णिः
प्रमादस्थानम ध्ययनम्
॥२७२॥
COP
आह-रागस्य हेतु-कारणं प्रक्रमाच्चक्षुः सह मनोज्ञेन रूपेण ग्राह्येन वर्त्तत इति समनोज्ञं-मनोज्ञरूपविषयमित्यर्थः, आहुः-ब्रुवते, दोषो-द्वेषस्तस्य हेतुममनोज्ञं अमनोज्ञरूपमाहुः॥२३॥ ११७८ ॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा एतदनुद्धरणे को दोष इत्याह
रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ सो विणासं (किलेसं पा०)।
रागाउरे से जहवा पयंगे, आलोअलोले समुवेइ मचुं ॥११७९॥ रूपेषु यो गृद्धिं-राग उपैति-गच्छति तीब्रां-उत्कटां, स किमित्याह-अकाले भवं अकालिक-यथास्थित्यायुरूपरमादा| गेव प्राप्नोति स विनाशं-घातं, रागेणातुरो-विह्वलो रागातुरः सन् स लोकप्रतीतः यथा वेति वाशब्दस्यैवार्थत्वात् यथैव-येनैव प्रकारेण पतङ्गः-शलभः आलोक:-अतिस्निग्धदीपशिखादिदर्शनं तस्मिन् लोलः-लम्पटः समुपैति मृत्यु-प्राणत्याग, तस्यापि ह्यालोकलोलत्वं राग एवेति भावः ॥ २४ ॥ ११७९ ॥
जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं (समुति सव्वं पा०)।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ ११८०॥ म यश्चेति यस्तु, अपि तस्मिन्नित्यत्र योक्ष्यते, दोष-द्वेषं समुपैति रूपेष्विति गम्यं, तीव्र, स किमित्याह-तस्मिन्नपि क्षणे
प्रस्तावे यसिन द्वेष उत्पन्नः सः तुः पूरणे उपैति दुःखं-चित्तसन्तापादिकं, यथा द्विष्टो हि किमिदमनिष्टं मया दृष्टमिति मनसा व्याकुलीभवति परितप्यते च देहेन, यदि रूपदर्शनात् द्वेषमुपगच्छन् दुःखमुपैति ततस्तथाविधरूपदोषेणैवास्य तद्धेतुकदुःखावा
axoXXXXXXXX
चक्षुरिन्द्रियस्वरूपम्
॥२७२॥
Jain Education
neubrary
a
For Privale & Personal use only
l