SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तत्र चक्षुरिन्द्रियस्वरूपम् चक्खुस्सेत्यादि अष्टसप्ततिः सूत्राणि, तत्रापि चक्षुराश्रित्य त्रयोदश सूत्राणि, चक्षुषः-चक्षुरिन्द्रियस्य रूपं वर्णः संस्थान वा गृह्यते अनेनेति ग्रहणं, कोऽर्थः?, आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते वदन्ति-अभिदधन्ति तीर्थकराद्या इति गम्यं, ततः किमित्याह तद् रूपं रागः-अभिष्वङ्गस्तद्धेतुः तदुत्पादकं, तुः पूरणे, मनोज्ञमाहुः, तथा तद् रूपं द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः, आह-एवं न कश्चित् सति रूपे वीतरागः स्यादत आह-समस्तु-अरक्तद्विष्टतया तुल्यः पुनर्यः तयोर्मनोज्ञेतररूपयोः स वीतराग इव तादृग्रागाभावात् वीतरागः, उपलक्षणात् | वीतद्वेषश्च, किमुक्तं भवति?, न तावच्चक्षुस्तयोः प्रवर्त्तयेत् , कथञ्चित्प्रवर्त्तने वा समतामेव अवलम्बते इति भावः॥२२॥११७७॥ । ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्तास्तु, रूपे चक्षुर्न प्रवर्त्तयेदित्येवं न तु युक्कैव चक्षुषSश्चिन्ता इत्याशङ्कयाह रूवस्स चक् गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं स(त पा० )मणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ ११७८ ॥ रूपस्य चक्षुर्गृह्णाति इति ग्रहणं वदन्ति, तथा चक्षुषो रूपं गृह्यत इति ग्रहणं ग्राह्यं वदन्ति, अनेन रूपचक्षुषोाह्यग्राहकभाव उक्तः, तथा च न ग्राहकं विना ग्राह्यत्वं, नापि ग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तः स्यात् , अनेन चानयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं स्यात् , अत एव RO-KOKOXO-KO-KO-KOKD-KO-KOK Jain Educati o n For Privale & Personal use only mow.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy