________________
उत्तरा०
अवचूर्णिः
प्रमादस्थानम ध्ययनम्
॥२७॥
३२
मानानि मनोरमाण्यपि विपाके सोपक्रमायुषां मरणहेतुतया अतिदारुणानि, एवं कामा अपि भुज्यमाना मनोरमा अपि विपाके नरकादिदुर्गतिदुःखदायितया अत्यन्तदारुणा एव ॥ २०॥ ११७५ ॥
एवं बहुगुणस्थानानुयायित्वेन रागस्य प्राधान्यात् केवलस्यैवोद्धरणोपायमुक्त्वा अधुना तस्यैव द्वेषसहितस्य तमभिधिसुदमितेन्द्रियत्वं च व्याचिख्यासुरिदमाह
जे इंदियाणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई।
न यामणुन्नेसु मणंपि कुजा, समाहिकामे समणे तवस्सी ॥१९७६ ॥ ये इन्द्रियाणां चक्षुरादीनां विषया-रूपादयः मनोज्ञाः न तेषु विषयेषु अपेर्गम्यत्वात् भावमपि-अभिप्रायमपि प्रस्तावादिन्द्रियाणि च प्रवर्तयितुं, किं पुनस्तत्प्रवर्तनमित्यपेरर्थः, निसृजेत्-कुर्यात् कदाचित् , न चामनोज्ञेषु मनोऽपि, अत्रापीन्द्रियाणि | प्रवर्त्तयितुं अप्यर्थः प्राग्वत् , कुर्यात्-विदध्यात्, तदनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तैकाम्यं, स च रागद्वेषाभाव एवेति स एव तेनोपलक्ष्यते, ततस्तत्कामो रागद्वेषोद्धरणाभिलाषी ॥२१॥११७६ ॥
इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्तनमिन्द्रियाणामुपदिष्ट, अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह
चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो॥११७७॥
KOOKok
तपस्वी दमितेन्द्रियो भवेत्
AT॥२७१॥
Jain Education
2
For Private & Personal use only
lainelibrary.org