SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ कामानु गृड्या दुःखम् कामाणुगिद्धिप्पभवं खु दुक्खं, सवस लोगस्स सदेवगरस । जं काइयं माणसियं च किंचि, तस्संतयं गच्छइ बीयरागो॥११७४ ॥ कामेषु-विषयेषु अनुगृद्धिः-सतताभिकाना तस्याः प्रभवो यस्य सत् कामानुगृद्धिप्रभवमेव खोरेवार्थत्वात् , किंनु? दुःखं, सर्वस्य लोकस्य सदेवकस्य-देवान्वितस्य, कतरढुःखमित्याह-यत्कायिकं रोगादि मानसिक चेष्टवियोगादिजन्यं किञ्चित्-स्वल्पमपि, कदाचिदेतदभावेऽपि एतत्स्यादत आह-तस्य द्विविधस्यापि दुःखस्यान्तकं-पर्यन्तं गच्छति वीतरागो-विगतकामानुगृद्धिरित्यर्थः ॥ १९॥ ११७४ ॥ ननु कामाः सुखरूपतयैवानुभूयन्ते, तत्कथं कामानुगृद्धिप्रभवमेव दुःखमुच्यते जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुजमाणा। ते खुद्दए जीवियपञ्चमाणा, एओवमा कामगुणा विवागे ॥ ११७५॥ यथा चेति-यथैव किम्पाको वृक्षविशेषस्तत्फलानि, अपेर्गम्यत्वात् मनोरमाण्यपि रसेन-आस्वादेन वर्णेन-रक्तत्वादिना चाद्गन्धादिना च, भुज्यमानानि ते इति तानि लोकप्रतीतानि क्षोदयितुं-अध्यवसायाद्यैरुपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यं क्षुद्रकं तस्मिन् सोपक्रमे जीविते-आयुषि पच्यमानानि-विपाकावस्था प्राप्तानि मरणान्तदुःखदायीनीति शेषः, प्राकृतत्वात् लिङ्गव्यत्ययः, एतदुपमाः-किम्पाकफलतुल्याः कामगुणा विपाके-फलप्रदानकाले, कोऽर्थः?, यथा हि-तानि उपभुज्य उत्तरा०४६ For Private & Personal Use Only wrwww.jainesbrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy