________________
आर्यध्यानयोग्यं, हितं-पथ्यं, सदा-सर्वकालं ब्रह्मचर्ये रतानां-आसक्तानां, ततः स्थितमेतत्-न स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्येत् ॥ १५ ॥ ११७० ॥
ननु-"विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः" तत्किमिति रागमुद्ध कामेन विविक्तशय्यासनताविधेयेत्युच्यते ? इत्याशङ्कयाह
कामं तु देवीहिं विभूसियाई, न चाइया खोभइउं तिगुत्ता ।
तहावि एगंतहियंति नचा, विवित्तवासो मुणिणं पसत्थो ॥१९७१॥ कामं तुत्ति, अनुमतमेवैतत् , यदुत देवीभिरप्यास्तां मानुषीभिरित्यपेरर्थः, भूषिताभिः अलङ्कृताभिर्न-नैव, चाइअत्तिशक्ताः क्षोभयितुं-चलयितुं संयमादिति गम्यं, तिसृभिर्गुप्तिभिर्गुप्तास्त्रिगुप्ताः, अर्थात् मुनयः, तथापि-यदप्येवंविधाश्चलयितुं न शक्यन्ते तदप्येकान्तहितमेतदिति ज्ञात्वा, कोऽर्थः ?, केचिदत्यन्तयोगिनोऽपि तत्सङ्गाक्षुभ्यन्ति, ये तत्सङ्गान्न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो" इत्याद्यवर्णादिदोषभाजः स्युरिति परिभाव्य विविक्तवासो-विविक्तशय्यासनात्मको मुनीनां प्रशस्तः-अन्तर्भावितण्यर्थतया प्रशंसितः, अतः स एवाश्रयणीय इति भावः॥१६॥ ११७१ ॥ एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह
मुक्खाभिकंखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहत्थिओ बालमणोहराओ॥११७२ ॥
मुनीनां विवितशय्या हिताय
शताः क्षोभयितु-चलाय
. कोऽर्थः ?, केचिदत्यन्तया
विविक्तवासो-विवि
Jain Educa
For Private & Personal use only
EXnow.jainelibrary.org