SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रमादस्थानमध्ययनम् २२ उत्तरा० विविक्तशय्यावस्थितावपि कदाचित् स्त्रीसम्पाते यत्कृत्यं तदाहअवचूर्णिः न रूवलावण्णविलासहासं, न जंपियं इंगिय पेहियं वा। ॥२६९॥ इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ ११६९॥ न-नैव रूपं-सुस्थानता लावण्यं नयनमनसा आह्वादको गुणः, विलासाः विशिष्टनेपथ्यरचनादयः हासः-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं, न जल्पितं-मन्मनोल्लापादि, इङ्गितं-अङ्गभङ्गादि-प्राकृतत्वात् बिन्दुलोपः, प्रेक्षितं-कटाक्षवीक्षितादि, वा समुच्चये, स्त्रीणां सम्बन्धि चित्ते निवेश्य-अहो सुन्दरमिदमिदं चेति विकल्पतः स्थापयित्वा द्रष्टुं-इन्द्रिय विषयतां नेतुं व्यवस्येत्-अध्यवस्येदिति योगः, चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धि विना एतद्दर्शनमपि न दोषायेति ख्याप्यते, * निवेश्येति च समानकालत्वेऽपि क्त्वाप्रत्ययोऽक्षिणी निमील्य हसती'त्यादिवत् ॥ १४ ॥ ११६९ ॥ किमेवमुपदिश्यते इत्याह अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए (चेरे पा० ) रयाणं ॥ ११७० ॥ अदर्शनं-इन्द्रियाविषयीकरणं, चः समुच्चये, एवः-अवधारणे, अदर्शनमेव, अप्रार्थनं च-अनभिलपणं, अचिन्तनं चैव रूपाद्यपरिभावनं अकीर्तनं च-अशब्दनं नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यान-धादि तस्य योग्यं-तद्धेतुत्वेनोचित खीसंपाते दृष्टिनिमी असणपषजनम ॥२६९॥ Jain Educationa l For Privale & Personal use only ujainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy