SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ KOKOKE अवचूर्णिः ॥२६८॥ प्रमादस्थानमध्ययनम् ३२ 8XOXXXXXXXX रसा निषेव्यमाणा इति गम्यं दृप्तिः-धातूद्रेकस्तत्करणशीला दृप्तिकराः, यद्वादीप्ति-दर्दीपन-मोहानलज्वलनं तत्करणशीला दीप्तिकराः, नराणामुपलक्षणात् स्त्रीणां च, उदीरयन्ति हि ते उपभुक्तास्तेषां मोहानलमिति, एवं च को दोष इत्याह-दृप्तं दीप्तं वा नरमिति प्रक्रमो, जातिविवक्षया बहुवचनप्रक्रमेऽपि एकवचनं, चः-पुनः कामाः-विषयाः समभिद्रवन्ति-अभिभवन्ति, कमिव क इवेत्याहद्रुमं यथा स्वादुफलं-मधुरफलान्वितं, (इव) इति भिन्नक्रमस्ततः पक्षिण इव, इह च दुमोपमो नरादिः, स्वादुफलतातुल्यं च दृप्तत्वं दीप्तत्वं वा, पक्षिसदृशाश्च कामा इति, अनेन रसप्रकामभोजने दोष उक्तः॥१०॥ ११६५ ॥ सम्प्रति सामान्येन प्रकामभोजने दोषमाह जहा दवग्गी पडरिंधणे वणे, समारुओ नोवसमं उवेइ। एविंदियग्गीवि पगामभोइणो, न बंभायरिस्स हियाय कस्सई ॥११६६ ।। यथा दवाग्निः प्रचुरेन्धने वने-अरण्ये, वसति हि कश्चित् विध्यापकोऽपि स्यादित्येतदुपादानं, समारुतः-सवायुः नोपशमविध्यानमुपैति-प्राप्नोति, एवं दवाग्निवन्नोपशाम्यति, इन्द्रियशब्देन इन्द्रियजनितो राग एवोक्तस्तस्यैवानर्थहेतुत्वेनेह चिन्त्यमानत्वात् , सोऽग्निरिव धर्मवनदाहकत्वादग्निरिन्द्रियाग्निः, सोऽपि प्रकामभोजिनः-अतिमात्राहारस्य, प्रकामभोजनस्य पवनसाम्यत्वेनातीव तदुदीरकत्वाद् , अतश्चायं न ब्रह्मचारिणो हिताय-हितनिमित्तं, ब्रह्मचर्यविघातकत्वात् , कस्यचित् अतिसुस्थित| स्यापि, तदनेन प्रकामभोजनस्य काक्का परिहार्यत्वमुक्तम् ॥ ११॥ ११६६ ॥ CoOXXXX प्रकामरस Xभोजने दोषाः KOK Jain Education C onal For Privale & Personal use only Soljainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy