SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ XOXOXOS | रागद्वेषमोहानामुन्मूलनोपायाः मित्याह-तृष्णा हता भवति न यस्य लोभः, कोर्थों ! लोभाभावात्तृष्णाभावः, स तर्हि केन हत इत्याह-लोभो हतो यस्य न किश्चनानि-द्रव्याणि सन्तीति गम्यम् ॥ ८॥११६३ ॥ सन्त्वेवं दुःखस्य मोहादयो हेतवो, हननोपायस्तेषां किमयमेवोतान्योऽपीत्याशक्य सविस्तरं तदुन्मूलनोपायं विवक्षुः प्रस्तावमारचयति, रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं। जे जे उवाया पडि(अपाया परि पा० )वज्जियव्वा, ते कित्तइस्सामि अहाणुपुर्दिव ॥ ११६४ ॥ स्पष्टा, नवरं, यदिह रागस्य प्रागुपादानं पूर्व तु मोहस्य तदेषां परस्परायतनत्वेन पूर्वापरभावस्यानियमात् , तथा उद्धत्तुकामेन-उन्मूलयितुमिच्छता सह मूलानामिव मूलानां-तीव्रकषायोदयादीनां जालेन-समूहेन वर्तत इति समूलजालस्तं, एतच्च रागादीनां प्रत्येक विशेषणं, ये ये उपायास्तदुद्धरणहेतवः प्रतिपत्तव्याः-अङ्गीकर्तव्याः कर्तुमिति शेषः॥९॥ ११६४ ॥ यथाप्रतिज्ञामाह रसा पगामं न हु सेवियचा, पायं रसा दित्ति(त्त प्रा०)करा नराणं । दित्तं च कामा समभिवंति, दुमं जहा साउफलं व पक्खी ॥ ११६५ ॥ रसा इत्यादि गाथाः ११, रसाः-क्षीरादिविकृतयःप्रकाम-अत्यर्थ न निषेवितव्या-नोपभुक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा निषेवितव्या एव, निष्कारणनिषेवणस्य तु निषेध इति ख्यापनार्थ, उक्तं च-"अच्चाहारो न सहेइ अतिनिद्धेणे विसया उदिजंति । जायामायाहारो तंपि पगाम न भुंजामि ॥१॥" किमित्येवमुपदिश्यते इत्याह-यतः प्रायः-बाहुल्येन VMww.jainelibrary.org Jain Educall For Private & Personal Use Only .mnational
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy