SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मोहावृष्णा FoXakkeXXXXXXXX वा-चेदर्थे ततोन चेत् लभेत्-न प्राप्नुयात् निपुणं-निपुणबुद्धिं सहायं गुणैः-ज्ञानादिभिरधिकं गुणाधिकं वा गुणतोज्ञानादिगुणानाश्रित्य समं वा-तुल्यं, उभयत्रात्मन इति गम्यं, वेति विकल्पे, ततः किमित्याह-एकोऽपि-असहायोऽपि पापानिपापहेत्वनुष्ठानानि विवर्जयन-विशेषेण परिहरन् विहरेत्-संयमाध्वनि यायात् कामेषु-विषयेषु असजन-प्रतिबन्धमकुर्वन् , तथाविधगीतार्थयतिविषयं चेदं, अन्यथैकाकिविहारस्यागमेषु निषिद्धत्वात् ॥५॥११६०॥ इत्थं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्त्वेदानीं तेषामपि मोहादिक्षयहेतुत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्वापनार्थ यथा तेषां सम्भवो यथा च दुःखस्य प्रसङ्गस्तेषां चाभावस्तथा वक्तुमाह जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥ ११६१ ॥ यस्यैवार्थत्वात् यथैव-येन प्रकारेण अण्डप्रभवा बलाका, अण्डं च बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, कोऽर्थः-यथा | अनयोः परस्परमुत्पत्तिस्थानता एवमेव-अनेनैव प्रकारेण मोहः-अज्ञानं, तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, आयतनंउत्पत्तिस्थानं यस्याः सा मोहायतना तां, खुरेवार्थे, ततो मोहायतनामेव तृष्णां वन्दतीति योगः, यथोक्तमोहाभावे ह्यवश्यम्भावी | तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति वस्तुनि मूर्छा, सा चात्यन्त दुस्त्यजेति रागप्रधाना, ततस्तयो राग उपलक्ष्यते, सति तत्र द्वेषोऽपि स्यादिति तृष्णाग्रहणेन रागद्वेषौ उक्तौ, एतयोश्चानन्तानु Jan Education For Private & Personal use only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy