________________
उत्तरा० अवचूर्णिः
प्रमादस्थानमध्ययनम्
कान्तनिषेपणा, सा च तत्राप्यनुप्रेक्षैव प्रधानेत्याह-सूत्रस्यार्थः-अभिधेयः, सूत्रार्थस्तस्य सश्चिन्तना सूत्रार्थसश्चिन्तना, अस्यामपि न चित्तस्वास्थ्यं विना ज्ञानादिलाभ इत्याह-धृतिश्च-चित्तस्वास्थ्यं चित्तानुद्विग्नतेत्यर्थः॥३॥११५८॥ यतश्चैवंविधो ज्ञानादिमार्गः तत एतानीच्छता प्राकू किं विधेयमित्याह
___ आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे निउणत्थ(णेह पा०)बुद्धिं ।
निकेयमिच्छिन्ज विवेगजोगं, समाहिकामे समगे तवस्सी ॥११५९॥ आहार-अशनादिकमपेर्गम्यत्वात् इच्छेदपि-अभिलषेदपि मितमेषणीयमेव, आदानभोजने तु दुरापास्त एव, एवंविधाहार एव हि प्रागुक्तगुरुवृद्धादिसेवादिज्ञानादिकारणान्याराधयितुं क्षमः, तथा सहायं-सहचरं इच्छेद्गच्छान्तर्वती सन्निति | गम्यं, निपुणा-कुशला अर्थेषु-जीवादिषु बुद्धिरस्येति स तं, अनीदृशो हि सहायः स्वास्थ्यव्यपदेशादिना ज्ञानादिहेतुगुरुवृद्धसेवादिभ्रंशमेव कुर्यात्, निकेतनं-आश्रयमिच्छेत् , विवेकः ख्यादिसंसर्गाभावस्तस्मै योग्यं-उचितं तदापाताद्यसम्भवेन विवेकयोग्य, अविविक्ताश्रये हि ख्यादिसंसर्गाच्चित्तविप्लवोत्पत्तौ कुतो गुरुवृद्धसेवादिज्ञानादिकारणसंभवः, समाधिः-ज्ञानादीनां परस्परमबाधयावस्थानं तं कामयते-अभिलपतीति समाधिकामो-ज्ञानाद्यवाप्तुकाम इत्यर्थः, श्रमणः-तपस्वी ॥४॥११५९ ॥ कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाह
न वा (प्र. या) लभिजा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एगोवि पावाइ विवजयं(अणायरं पा)तो, विहरेज कामेसु असज्जमाणो ॥ ११६०॥
समाध्यर्थे साधुकर्तव्यनिरुपणम्
॥२६६॥
Jain Educa
t ional
For Private & Personal use only
Alw.jainelibrary.org