________________
ज्ञानस्य-मत्यादेः सर्वस्य प्रकाशनया-निर्मलीकरणेनेत्यर्थः, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञान-मत्यज्ञानादि मोहोदर्शनमोहनीयमनयोः समाहारोऽज्ञानमोहं तस्य विवर्जना-परिहारो मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरित्यागादिना तया, अनेन स एव सम्यग्दर्शनात्मक उक्तः, तथा रागस्य द्वेषस्य च संक्षयेण-विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभिधानं, रागद्वेषयोरेव कषायरूपत्वेन तदुपघातकत्वाभिधानात् , ततश्चायमर्थः-सम्यग्दर्शनज्ञानचारित्रैरकान्तसौख्यं-दुःखलेशाकलडिन्तसुखं समुपैति मोक्ष-अपवर्ग, अयं च दुःखप्रमोक्षाविनाभावीत्यनेन स एवोपलक्षितः॥२॥११५७ ॥ तत्त्वतस्तु ज्ञानादिभिर्दुःखप्रमोक्षः, परममीषां कः प्राप्तिहेतुः१, उच्यते
तस्लेस मग्गो गुरुविद्धसेवा, विवजणा बालजणस्स दूरा।
सज्झायएगंतनिसेवणा य (निवेसणाए पा०),सुत्तत्थसंचिंतणया घिई य ॥११५८ ॥ तस्य प्रागुक्तस्य मोक्षोपायस्य एष वक्ष्यमाणो मार्गः-पन्था प्राप्तिहेतुः, यदुत गुरवो वृद्धाश्च-श्रुतपर्यायादिवृद्धास्तेषां सेवापर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तत्र च सुप्रापाण्येव ज्ञानादीनि, यदुक्तं-"नाणस्स होइ भागी थिरयरओ दसणे चरित्ते अ । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" सत्यपि च गुरुकुलवासे कुसंसर्गतो न स्यादेतत्| प्राप्तिरित्याह-विवर्जना-परिहारः बालजनस्य-पार्श्वस्थादेः दूराद्-दूरेण, तत्सङ्गस्याप्यल्पीयसो महादोषहेतुत्वेनोक्तत्वात् , तत्परिहारोऽपि च न स्वाध्यायतत्परतां विना ज्ञानाद्यवाप्तिरित्याह-स्वाध्यायस्यैकान्तेन निषेवणा-निश्चयेन अनुष्ठानं, स्वाध्यायै
एकान्तमोक्षोपाये ज्ञानप्राप्त्युपायः
Jain Educati
o
nal
For Privale & Personal use only
N
ew.jainelibrary.org