________________
चारित्रविधिः
potoXXXXXXXXXXX
वएसु इंदियत्थेसु, समिईसु किरियासु य । जे भिक्खू जयई निचं, से० ॥ ११४१ ॥ व्रतेषु-हिंसाऽनृतास्तेयाब्रह्मपरिग्रहविरितिलक्षणेषु इन्द्रियार्थेषु शब्दरूपरसगन्धस्पर्शेषु समितिषु क्रियासु-कायिक्याधिकरणिकीपाद्वेषिकीपारितापनिकीप्राणातिपातरूपासु, यो भिक्षुर्यतते-यत्नं कुरुते यथावत्परिपालनातो व्रतसमितिषु माध्यस्थ्यविधानतश्चेन्द्रियार्थेषु परिहारतश्च क्रियासु ॥७॥११४१॥
लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई०॥ ११४२॥ । लेश्यासु वक्ष्यमाणरूपासु, षट्सु कायेषु-पृथिव्यादिषु, षट्के-षट्परिमाणे आहारकारणे “वेअणवैयावच्चे” इत्यादिके प्रागुक्त यो भिक्षुर्यतते-यथायोग निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥८॥११४२॥
पिंडुग्गहपडिमासु, भयहाणेसु सत्तसु । जे भिक्खू जयई०॥ ११४३ ॥ पिण्डावग्रहप्रतिमासु-आहारग्रहणविषयाभिग्रहरूपासु, संसृष्टादिषु सप्तस्विति सम्बध्यते, भयस्थानेषु-भयमोहनीयोत्थात्मX| परिणामस्योत्पत्तिहेतुतयाऽऽश्रयेषु, "इह १ परलोग २ दाण ३ मकम्हा ४ आजीव ५ मरण ६ मसिलोए,।" इति रूपेषु सप्तसु-सप्तसंख्येषु यतते-एकत्र पालनातोऽन्यत्र तु तद्वशेन भयाकरणतः॥९॥ ११४३ ॥
मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई० ॥ ११४४ ॥ मदेषु-जातिमदादिषु अष्टसु, प्रतीतत्वात् चेहान्यत्र च सूत्रे सङ्ख्यानभिधानं, ब्रह्मेति-ब्रह्मचर्यगुप्तिषु "वसहिकहे"त्यादि भेदतः, यतते-यथावत् परिहारासेवनपालनादिभिः॥१०॥११४४ ॥
Sind
Rotional
For Privale & Personal use only