________________
संलीनतामाह
एगंतमणावाए, इत्थीपसुविवजिए। सयणासणसेवणया, विवित्तं सयणासणं ॥ ११२५ ॥ सुब्व्यत्ययात् एकान्ते-जनानाकुले अनापाते-ख्याद्यापातरहिते स्त्रीपशुविवर्जिते, तत्रैवावस्थितः स्यादिरहिते-शून्यागारादाविति भावः, सूत्रत्वात् शयनासनसेवन-विविक्तशयनासनं नाम बाह्यं तप उच्यते इति शेषः, उपलक्षणं चैतत् एषणीयफलकादिग्रहणस्य, तथा चानेन विविक्तचर्या नाम संलीनतोक्ता, शेषसंलीनतोपलक्षणं चासौ, एषा चतुर्धा, यदुक्तं-"इंदिअकसायजोगे पडुच्च संलीणया मुणेअव्वा । तह जा विवित्तचरिआ पन्नत्ता वीयारागेहिं ॥१॥” तत्रेन्द्रियसंलीनता श्रोतादिभिरिन्द्रियैशब्दादिषु हृद्याहृयेषु रागद्वेषाकरणं, कषायसं० तदुदयनिरोधः उदीर्णविफलीकरणं, योगसं० मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमिति ॥ २८ ॥ ११२५ ॥
उक्तार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धाभिधानायाहएसो बाहिरगतवो, समासेण वियाहिओ। अभितरो तवं इत्तो, वुच्छामि अणुपुव्वसो॥११२६ ॥ एतदनन्तरोक्तं बाह्यकं तपः, इतोबाह्यतपोऽभिधानादनन्तरं वक्ष्यामि-अभिधास्ये अनुपूर्व्या ॥ २९ ॥ ११२६ ॥
प्रतिज्ञातमाहपायच्छित्तं विणओ, वेयावचं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ॥ ११२७॥ स्पष्टार्था ॥ ३०॥ ११२७॥
संलीनताखरूपमन्भ्यन्तरतपोनामानि च
an
For Private & Personal use only