________________
रूपमेवालङ्कतत्वादि, तोरेवार्थत्वादनुन्मुञ्चन्नेव-अत्यजन्नेव यदि दाता दास्यति ततोऽहं गृहीष्ये नत्वन्यथेत्युपस्कारः, एवं चरन खलु-निश्चितं भावावमत्वेनोपलक्षितः प्रक्रमादुदरस्य मुणितव्यः, यद्वा सुब्व्यत्ययादेवं चरतः खलु भावावमत्वेन हेतुना मुणितव्यमवमौदर्यमिति प्रक्रमः॥ २३ ॥ ११२०॥ पर्यवावमौदर्यमाह
दव्वे खित्ते काले भावमि य आहिया उजे भावा । एएहिं ओमचरओ पजवचरओ भवे भिक्खू ॥११२२॥
द्रव्ये अशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ, आख्याता:-कथिताः, तुः पूरणे, ये भावाः पर्याया | एकसिक्थोनत्वादयः, एतैः सर्वैरपि द्रव्यादिपर्यायैः, अवममुपलक्षणत्वादवमौदर्य चरति-आसेवते अवमचरकः पर्यवचरको वा भवेद्भिक्षुः, इह च पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, यद्वा एतेभ्यो द्रव्यादिपर्यायेभ्योऽवमचरको न्यूनत्वासेवकः, कोर्थः?, एकसिक्थोनत्वादावपि नवपुराणत्वादिविशेषाभिग्रहवान् , एवं ग्रामपौरुषीस्त्रीत्वादिष्वपि विशिष्टाभिग्रहतः पूर्वस्मात् भिन्नत्वं भावनीय, आह-क्षेत्रावमौदर्यादिष्वप्यशनादिद्रव्येणैवोदरस्यावमत्वमिति कथं द्रव्यावमौदर्यादेषां विशेषः?, उच्यते, यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति, तत्रापि क्षेत्रादिन्यूनतामपेक्ष्य क्षेत्राद्यवमौदर्याणि भण्यन्त एवेति ॥ २४ ॥ ११२१॥
भिक्षाचर्यामाह
अट्ठविहगोयरग्गं तु, तहा सत्तेव एसणा। अभिग्गहा य जे अण्णे, भिक्खायरियमाहिया ॥ ११२२ ॥ प्राकृतत्वादष्टविधोऽग्रः-प्रधान आधाकर्मादिद्विचत्वारिंशद्दोषपरिहारेण, स चासौ गौरिव चरणं-उच्चावचकुलेष्वविशेषेण पर्यटनं गोचरः, तुरुत्तरापेक्षया समुच्चये, अत्र चाष्टावग्रगोचरभेदाः पेडादय एव, शंबूकावर्तीया द्वैविध्याश्रयणात् , ऋज्व्या
पर्यवावमौदर्यम्
उत्सरा०४४
Jain Education ulla!
For Private & Personal use only
Mainelibrary.org