SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः गहनाद्याश्रितः प्रान्तजननिवासे, खेट्यन्ते-उत्रास्यन्ते अत्र स्थितैः शत्रव इति खेटं-धूलिप्राकारपरिक्षिप्तं तत्र, कर्बर्ट-कर्बटजनावासं कुनगरमित्यर्थः, द्रोण्यो-नावो मुखमस्येति द्रोणमुखं-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं तामलिप्तिर्वा, पतन्त्यस्मिन् सर्वदिग्भ्यो जना इति पत्तनं, तच्च द्विधा-जलपत्तनं-जलान्तःस्थानां जनानां निवासस्थानं तद् द्वीपपत्तनं, स्थलपत्तनं च-मथुरा, मटंब-यस्य सर्वदिश्वर्द्धतृतीययोजनान्तामो नास्ति, सम्बाधः-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां चात्र समाहारद्वन्द्वः तस्मिन् ॥ १६ ॥१११३॥ तपोमार्ग गत्यध्ययनम् ॥२५७॥ ३० क्षेत्रावमौदर्यम आसमपए विहारे संनिविसे समासघोसे य । थलिसेणाखंधारे सत्थे संवह कोट्टे य ॥ १११४ ॥ वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवामई एवं खित्तेण ऊ भवे ॥ १११५॥ आ-समन्तात् श्राम्यन्ति तपः कुर्वन्त्यस्मिन्नित्याश्रमः-तापसावसथादिस्तदुपलक्षितं पदं स्थानं आश्रमपदं तस्मिन् , विहारोदेवगृहं तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , सन्निवेशे-यात्रादिसमायातजनावासे, समाजश्च-पथिकसमूहो घोषश्च-गोकुलं समाहारे समाजघोषं तस्मिन् , चः समुच्चये, स्थल्यां-उच्चभूमागे, सेना-चतुरङ्गबलसमूहः, स्कन्धावारश्च स एवाशेषखेटकाद्यु पलक्षितः सेनास्कन्धावार तस्मिन् , सार्थे-गणिमधरिमभृतवृषभादिसङ्घाते संवर्तन्ते-पिण्डीभवन्त्यस्मिन् भयत्रस्ता जना इति संवतः कोट्टं च प्राकारः स संवतकोट्टः तस्मिन् , चः समुच्चये, क्षेत्रप्रस्तावादिह समाजादिषु क्षेत्रमेवोपलक्ष्यते, वाटेषु पादेषु वावृत्तिवरण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु, रथ्यासु-सेरिकासु, गृहेषु, वा सर्वत्र विकल्पे, एवमित्यनेन हृदयस्थप्रकारेण, एताव | ॥२५७॥ Jain Education ona For Private & Personal use only hinelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy