________________
अवमोदरणं-न्यूनोदरता करणमित्यर्थः, आमोअरिअमिति पाठे तु अवम-न्यून उदरं-जठरमस्यासौ अवमौदरस्तद्भावोऽवमौदर्य, पञ्चधा, पञ्चधात्वमेवाह-द्रव्यतो-द्रव्याद्धेतोः, पर्यायैश्च उपायभूतैः, सर्वत्र हेतौ तृतीया ॥ १४ ॥ ११११॥
तत्र द्रव्यत आह
जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहन्नेणेगसिस्थाई, एवं दब्वेण ऊ भवे ॥१११२॥ यो यस्य तुः पूरणे आहारस्ततः स्वाहारादवमं ऊनं, तुः पूरणे यः कुर्याद , भुञ्जान इति शेषः, कोऽर्थः?, नरस्य हि ३२ कवलमान आहारः, स्त्रियाश्च २८ कवलमान आहारः, यदुक्तं-"बत्तीसं किरकवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलाण य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जो वा अविगिअवयणो वयणंमि छुहिज्ज वीसत्थो ॥ २॥” ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्याभिसम्बन्धात्तस्य एवं-अमुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सम्बन्धः, अवमौदर्यमिति प्रक्रमः, एतच्च जघन्येनैकसिक्थु यत्रैकमेव सिक्थु भुज्यते तदादि ॥१५॥१११२॥
क्षेत्रावमौदर्यमाह
गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कबडदोणमुहपट्टणमडंबसंवाहे ॥१११३ ॥ ग्रसति गुणान् , गम्यो वा अष्टादशानां कराणामिति ग्रामस्तस्मिन् , नात्र करोऽस्तीति नकरं तत्र, तथा राजा अनया धीयते इति राजधानी-राज्ञः पीठिकास्थानमित्यर्थः, नितरामाच्छिति तस्मिन्ननेकविधभाण्डानीति निगमः-प्रभूतवणिजां निवासोऽनयोः समाहारस्तस्मिन् , आकरे-हिरण्याद्युत्पत्तिस्थाने, सुव्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली तस्यां-वृक्ष
व्यक्षेत्रावमौदर्यम्
DXOXOKeXOX
JainEducatioNetational
For Private & Personal use only
taininelibrary.org