SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः तपोमार्ग गत्यध्ययनम् ॥२५६॥ ३० पुनद्वैविध्यमेव प्रकारान्तरेणाह अहवा सपरिकम्मा अपरिकम्मा य आहिया। नीहारिमणीहारी आहारच्छेअओ दुसुवि ॥१११०॥ अथवेति प्रकारान्तरसूचने, सह परिकर्मणा स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना च वर्तते यत्तत्सपरिकर्म, तच्च सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, एकत्र स्वयमन्येन वा कृतस्यान्यत्र तु स्वयं विहितस्यैवोद्वर्त्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् एतद्विपरीतमपरिकर्म, तच्च पादपोपगमनं, निष्प्रतिकर्मताया एव तत्राभिधानात्, यद्वा परिकर्म-संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं तु अपरिकर्म, तत्र चाव्याघाते त्रयमप्येतत् सूत्रार्थोभयनिष्ठितो निष्पादितशिष्यः संलेख-* नापूर्वकमेव विधत्ते, अन्यथा आर्तध्यानसम्भवाद् उक्तं हि-"देहमि असंलिहिए सहसा धाऊहि खिज्जमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरिमकालंमि॥१॥” इति सपरिकोच्यते, यत्पुनाघाते-गिरिभित्तिपतनाभिघातसर्वाङ्गपीडकवातादिरूपे संले- | खनामकृत्वैव भक्तप्रत्याख्यानादि क्रियते, तदपरिकर्म आख्यातं-कथितं, तथा निर्हरणं निर्हारो-गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं, तद्विद्यते यत्र तन्निहारि, तदन्यदनिहारि, यदुत्थातुकामे जिकादौ विधीयते, एतच्च प्रकारद्वयमपि पादपोपगमनविषयं, तत्प्रस्तावे एवागमे अत्योक्तवात् , आहारच्छेदश्च-आहारनिराकरणं द्वयोरपि सपरिकर्मापरिकर्मणोर्निहार्यनिर्हारिणोश्च सम इति शेषः॥ १३ ॥ १११०॥ सम्प्रत्यूनोदरतामाहओमोअरणं पंचहा, समासेण वियाहियं । दव्वओ खित्तकालेणं, भावेणं पजवेहि य ॥ ११११ ॥ सपरिकर्मापरिकर्मतपःस्वरूपम् ॥२५६॥ Jain Educati n For Private&Personal Use Only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy