SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यप्रतिमादि च, एवं भेदानुक्त्वोपसंहारमाह-मनस ईप्सितःX इष्टश्चित्रः-अनेकप्रकारोऽर्थः-स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवतीत्वरकं प्रक्रमादनशनाख्यं तपः॥१०-११ ॥११०७-८॥ सम्प्रति मरणकालमनशनमाह जा सा अणसणा मरणे, दुविहा सा वियाहिया। सवीयारमवीयारा, कायचिट्ठ पई भवे ॥११०९॥ यत्तदनशनं मरणे-मरणावसरे द्विविधं तद्व्याख्यातं, द्वैविध्यमेवाह-सह विचारेण चेष्टात्मकेन वर्तते यत्तत्सविचार, तद्वि. परीतमविचार, विचारश्च कायवाङ्मनोभेदात् त्रिविध इति तद्विशेषपरिज्ञानार्थमाह-कायचेष्टामुद्वर्तनपरिवर्तनादिकां प्रतीत्यआश्रित्य भवेत् स्यात् , तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहि-भक्तप्रत्याख्याने गच्छमध्यवती गुरुदत्तालोचनो मरणोद्यतो संलेखनां कृत्वा ततस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याति, स च समास्तृतमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोदाहितनमस्कारः पार्श्वस्थसाधुदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्त्तते परिवर्त्तते च, शक्तिविकलतायां चान्यैरपि किञ्चित्कारयति, इङ्गिनीमरणप्रतिपत्तवापि स्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानस्तत्स्थण्डिलस्यान्तइछायात उष्णं उष्णाच्च छायां स्वयं सङ्क्रामति उद्वर्त्तनादि च कुरुते, अविचारं तु पादपोपगमनं, तत्र हि सव्याघाताव्याघातभेदतो द्विविधेऽपि देवगुरुमूलत्वात्तदन्तिकेऽनशनं, परं गिरिगुहादिषु दण्डायतादिस्थानस्थितेन पादपवन् निश्चेष्टयैव स्थीयते ॥ १२॥ ११०९॥ (OXOXOXOXOXOXOXOXOXOXOXOX मरणकाले क्रियमाणानशन भेदाः Sain Educ a tional For Privale & Personal use only How.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy