________________
कुतीर्थिकैश्च स्वाभिप्रायेणासेव्यमानत्वात् च, अभ्यन्तरं तद्विपरीतं, तथेति समुच्चये, बाह्यं पविध, (एव) अभ्यन्तरं तप उक्तमिति योगः, सर्वत्र सूत्रत्वात् लिङ्गव्यत्ययः॥७॥११०४ ॥
तत्र बाह्यं यथा पविधं तथाह___ अणसणमूणोअरिया भिक्खायरिया य रसपरिचाओ। कायकिलेसो संलिणया य बज्झोतवो होइ ॥११०५॥ अक्षरार्थः स्पष्ट एव ॥ ८॥११०५॥ भावार्थस्तु प्रतिभेदं सूत्रकार एव विवक्षुस्तावदनशनमाह
इत्तरियमरणकाला य, अणसणा दुविहा भवे। इत्तरिया सावकंखा, निरव(प्र०रा)कंखा उ बिइजिया॥११०६॥ गाथापञ्चकं, इत्वरमेव इत्वरकं-नियतकालावधिकमित्यर्थः, मरणावसानः कालो यस्य तत् मरणकालं मध्यपदलोपीसमासो, यावजीवमित्यर्थः, यद्वा मरणं काल:-अवसरो यस्य तत् मरणकालं, चः समुच्चये, अश्यते-भुज्यते इत्यशनं सर्वाहाराभिधानमेतत्, न विद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं द्विविधं भवेत् , सर्वत्र प्राकृतत्वात् स्त्रीलिङ्गता, तत्रत्वरकं सहावकाङ्क्षया-घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सावकाझं, निष्कान्तमाकाङ्क्षातो निराकाङ्क्ष, तजन्मनि भोजनाशंसाभावात् , तोर्भिन्नक्रमत्वात् द्वितीयं पुनर्मरणकालम् ॥९॥११०६॥
अथेत्वरकानशनस्य भेदानाहजो सो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो अतह होइ वग्गो य ॥११०७॥
बाह्यतपो
| भेदा अन|शनभेदीप
For Privale & Personal use only
SainEducational
Palliainelibrary.org