________________
अथ त्रिंशं तपोमार्गगत्यध्ययनम् ।
अनन्तराध्ययनेऽप्रमाद उक्तः, इह तु तद्वता तपो विधेयमिति तत्स्वरूपमुच्यते, अस्य तपोमार्गगतिरितिनाम.जहा उ पावगं कम्मं, रागहोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुणे ॥ १०९८ ॥ यथा-येन प्रकारेण, तुरेवार्थो भिन्नक्रमो योज्यते, पापकं कर्म-ज्ञानावरणादि, रागद्वेषाभ्यां सम् इति-भृशं अर्जितं-उपात्तं रागद्वेषसमार्जितं क्षपयत्येव तपसा भिक्षुः तदेकाग्रमनाः, शृणु इति शिष्यमभिमुखं करोति, मा भूदनभिमुखोपदेशेनैतद्वैफल्यमिति ॥१॥१०९८॥
इह चानाश्रवेणैव सर्वथा कर्मक्षिप्यत इति यथाऽसौ स्यात्तदाहपाणिवहमुसावाया अदत्तमेहुणपरिग्गहा विरओ। राईभोयणविरओ, जीवो भवइ अणासवो॥१०९९ ॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो भवइ अणासवो ॥११००॥ गाथाद्वयं सुगम, नवरं विरत इति प्राणवधादिभिः प्रत्येकं योज्यते, तथा भवति अनाश्रवो-अविद्यमानकर्मोपादानहेतुः ॥२-३॥ १०९९-११००॥
@KOXOXOXOXOXOXOXOXOXO-Koरक
प्राणातिपातविरत्यादीन्यनाश्रवकारणानि
Sain Educa
t
ional
For Privale & Personal use only
Rochar.jainelibrary.org