________________
द्वित्रिसप्तति
निरुणद्धि, इत्थं योगत्रयनिरोधं विधाय ईषदिति-स्वल्पः प्रयत्नापेक्षया पञ्चानां हस्वाक्षराणां-अइउऋल. इत्येवंरूपाणां उच्चारो-भणनं तस्याद्धा-कालो यावता त उच्चार्यन्ते ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च, णमिति प्राग्वत्, अनगारः-मुनिः समुच्छिन्ना-उपरता क्रिया-चित्तादिव्यापाररूपा यस्मिंस्तत्समुच्छिन्नक्रियं न निवर्तते कर्मक्षयात् प्रागित्येवंशीलमनिवर्ति शुक्ल-| ध्यानं तुर्यभेदरूपं ध्यायन्-शैलेश्यवस्थामनुभवन्निति भावः, हस्वाक्षरोच्चारणं त्वविलम्बाद्रुतं गृह्यते, एवंविधश्च यत्कुरुते तदाहवेदनीयं १ आयुर्नाम २-३ गोत्रं ४ च, एतानि चत्वारि सत्कर्माणि युगपत्क्षपयति, ततो वेदनीयादिक्षयानन्तरं औदारिककार्मणे शरीरे उपलक्षणत्वात् तैजसं च, सर्वाभिः-अशेषाभिः विशेषेण प्रकर्षतो हानयः त्यागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं ताभिः, कोर्थः-सर्वथा परिशाटनेन, न तु यथा पूर्व सङ्घातपरिशाटाभ्यां देशत्यागतः, विशेषेण प्रहाय विप्रहाय-परिशाट्य, चशब्दोऽत्रौदयिकादिभावनिवृत्तिमस्यानुक्तामपि समुच्चिनोति, यदुक्तं-"तस्सोदइआ भावा भावत्तं च विणिवत्तए जुगवं संमत्तनाणदंसणसुहसिद्धत्ताणि मुत्तूणं ॥१॥" ऋजुः-अवक्राश्रेणिः-आकाशप्रदेशपंक्तिस्तां प्राप्तोऽनुश्रेणिगत इत्यर्थः, अस्पृशद्गति, कोऽर्थः, यावत्स्वाकाशप्रदेशेषु जीवोऽवगाढस्तावत् एव स्पृशति, न तु ततोऽतिरिक्तमेकमपि प्रदेशं, ऊर्ध्व-उपरि एकसमयेन द्वितीयादिसमयान्तरास्पर्शनेन अविग्रहेण-वक्रगतिरूपविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुत्तोऽर्थः स्पष्टतरो भवतीत्यनुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानं, तत्र-मुक्तौ गंतत्ति गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् , उक्तं च-"उजुसेटिं पडिवण्णो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागरोवउत्तो सो॥१॥” (७२-७३)। ७४-७५। ८६-८७ ॥
द्वारे
उत्तरा०४३
JainEducation inside
For Private & Personal use only
Kanelibrary.org