SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २५२ ॥ Jain Education सुहुमकिरियं अप्पडिवाई सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरुभइ वयजोगं निरंभइ आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुचारणद्वार य णं अणगारे समुच्छिन्नकिरियं अणियहिकज्झाणं झियायमाणो | वेयणिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ ( ७२ ) । सू० ८६ । तओ ओरालियं कम्माई च सवाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उहुं एसमएणं अविग्गणं तत्थ गंता सागरोवउत्ते सिज्झइ जाव अंत करेइ (७३) । सू० ८७ । अथेति केवलावास्यनन्तरं आयुष्कं - जीवितं देशोनपूर्वकोटीप्रमाणं अन्तमुहूर्त्तादिप्रमाणं वा पालयित्वा अन्तमुहूर्त्तावशेषं तथाविधं आयुरस्येति अन्तर्मुहूर्त्तावशेषायुष्कः, योगनिरोधं करिष्यमाणं सूक्ष्मा क्रिया - व्यापारो यस्मिन् तत्सूक्ष्मक्रियं अप्रतिपाति अधःपतनाभावात् शुक्लध्यानं, “समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते” इति न्यायात् शुक्लध्यानतृतीयभेदं ध्यायन् तत्प्रथमतया तदाद्यतया मनसो योगं - मनोद्रव्यसाचिव्यजनितं व्यापारं निरुणद्धि, तत्र पर्याप्तमात्रस्य संज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तज्जनितश्च यावाद् व्यापारस्तत्सङ्ख्यगुणविहीनानि मनोद्रव्याणि तद्व्यापारं च प्रतिसमयं निरुन्धन्नसङ्ख्येयसमयैस्तत्सर्वनिरोधं करोति, तदनन्तरं वाचो वाचि वा योगो वाग्योगो भाषाद्रव्यसाचिव्यजनितव्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसङ्ख्यगुणविहीनांस्तत्पर्यायान् समये २ निरुन्धन्नसङ्ख्येयसमयैः सर्ववाग्योगं निरुणद्धि, तत्र आनापानौ - उच्च्छासनिश्वासौ तन्निरोधं करोति, सकलकायनिरोधोपलक्षणं चैतत् तं च कुर्वन् प्रथम| समयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्येयगुणहीनं काययोगमेकैकसमये निरुन्धन् देहत्रिभागं मुञ्चन्नसङ्ख्येयसमयैरेव सर्वं ational For Private & Personal Use Only सम्यक्त्वपराक्रमा ध्ययनम् २९ द्वासप्ततिद्वारम् ।। २५२ ॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy