________________
प्यज्ञानतिमिराभावात् , विशुद्धं सर्वदोषविगमात् लोकालोकप्रभावकं तत्स्वरूपप्रकाशकत्वात् केवलं असहायं वरं-शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ततः केवलवरशब्दाभ्यां कर्मधारयसमासे केवलवरज्ञानदर्शनं समुत्पादयति-जनयति, आत्मन इति गम्यं, स
च यावत्सयोगी-मनोवाक्कायव्यापारवान् भवति, तावत्किमित्याह-तावत् ईरणमीर्या-गतिस्तस्याः पन्था-यदाश्रिता सा भवति * तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं तिष्ठतोऽपि, सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, तदेवं पथिस्थः
तिष्ठन्वा ऐर्यापथिकं कर्म बध्नाति, तच्च कीदृगित्याह-सुखयतीति सुखः स्पर्श-आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाह-तत् प्रथमसमये बद्धं-आत्मसात्कृतं, स्पर्शाविनाभावित्वाच्चास्य स्पृष्टं च, द्वितीयसमये वेदितं-अनुभूतं, उदयान्यथानुपपत्त्या चास्फोटितं च, एकसप्ततितृतीयसमये निजीर्ण-परिशटितं, अतश्च तद् बद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं-मसृणमणिकुड्यापतितस्थूल- द्वारम् | शिलाशकलचूर्णवत् , अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, उदीरितं-उदयप्राप्तमुदीरणायास्तत्रासम्भवात् वेदितं तत्फलसुखानुभवनेन, निर्जीण-क्षयमुपागतं, सेआले यत्ति सूत्रत्वात् एष्यत्काले चतुर्थसमयादावकर्म चापि भवति,
तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् , एतच्चैवंविधविशेषणान्वितं सातकमैवासौ बध्नाति, यदुक्तं-"अप्पं बायर मउअं X वहुंच रुक्खं च सुक्किलं चेव । मंदं महत्वयंतिय सायाबहुलं च तं कम्मं ॥१॥” (७१)। ७३ । ८५।।
अयं च यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराहअहाउयं पालइत्ता-अंतोमुहुत्तअद्धावसेसाउओ (अंतोमुहुत्त अद्धावसेसाए पा०) जोगनिरोहं करेमाणोel
च रुक्खं च सकिराणामाभावात् , एतच्चैवंविधविशेषणात्यत्काले चतुर्थसमयादावकर्म चार
Sain Educati
o
nal
For Privale & Personal use only
w.jainelibrary.org