________________
सप्तषष्टितो
सोइंदिअनिग्गहेत्यादि सूत्रपञ्चकं, श्रोत्रेन्द्रियस्य निग्रहः-स्वस्वविषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन, मनोज्ञामनोज्ञेषु-अभिमतेतरेषु शब्दादिषु यथाक्रमं रागद्वेषनिग्रहं जनयति, तथा च तत्प्रत्ययिक रागद्वेषनिमित्तं कर्म न बध्नाति पूर्वबद्धं च निर्जरयति, तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः, एवं च चक्षुरिन्द्रियादिनिग्रहेण, यथाप्रधानं चात्रेन्द्रियनिर्देशः, प्राधान्यं च पाटवाद्यपेक्षम् (६२, ६३, ६४, ६५, ६६)। ६४-६८ । ७६-८० । ___एतन्निग्रहोऽपि कषायजयादेव भवेद् , अतः क्रमेण तद्विजयमाह| कोहविजएणं भंते०१, २ खंतिं जणेइ, कोहवेयणिनं कम्मं न बंधइ पुवनिबद्धं च निजरेइ (६७)। सू०८१। |एवं माणविज० महवं० (६८)। सू०८२। माया० अजवं० (६९)। सू० ८३ । लोभ० संतोसं० (७०)। सू० ८४
क्रोधस्य विजयो-दुरन्ततापरिभावनेनोदयनिरोधः क्रोधविजयस्तेन, क्रोधेन-कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयं तद्धेतुभूतपुद्गलरूपं कर्म न बध्नाति, तथा पूर्वबद्धं प्रक्रमात् तदेव निर्जरयति, तत एव विशिष्टजीववीर्योल्लासात्, एवं मानविजयेन, मायाविजयेन, लोभविजयेन (६७, ६८, ६९, ७०)। ६९-७२ । ८१-८४ ।
एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विना, अतस्तमाह
पिजदोसमिच्छादसणविजएणं भंते०१.२ नाणदंसणचरित्ताराहणयाए अब्भुढेइ अट्टविहस्स कम्मस्स कम्मगंठि( अट्टविहकम्म पा०)विमोयणयाए, तप्पढमयाए जहाणुपुर्वि अट्ठावीसइविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दसणावरणिजं पंचविहं अंतराय, एए तिन्नि (प्र.वि) कम्मंसे जुगवं
सप्तति
द्वाराणि
Sain Educati
o nal
For Private & Personal use only
C
ainelibrary.org