________________
उत्तरा अवचूर्णि
सम्यक्त्व पराक्रमाध्ययनम्
॥२४९॥
२९
वाक्समाधारणया-स्वाध्याय एव वाग्निवेशनात्मिकया वाचा समाधारणया वाक्समाधारणया, ये मतेरिव वचसोऽपि विषयाःप्रज्ञापनीया इत्यर्थः, ते च पदार्था एव, इह च तद्विषया दर्शनपर्यवा अप्युपचारात् तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च-सम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्तान् विशोधयति, “दविए दंसणसोही" इति वचनात् , द्रव्यानुयोगाभ्यासतस्तद्विषयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभवोधिकत्वं निवर्तयति, दुर्लभबोधिकत्वं निर्जरयति (५७) । ५९ । ७१ । ___कायसमाधारणयाए णं भंते० ?, २ चरित्तपज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ २त्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्मइ ५ (५८)। सू०७२।
कायसमाधारणया-संयमयोगेषु कायस्य सम्यग् व्यवस्थापनरूपया चारित्रपर्यवान्-चारित्रभेदान् क्षायोपशमिकानिति गम्यं, विशोधयति-अतीचारकालुष्यापनयेन, चारित्रपर्यवान् विशोध्य ततो यथाख्यातचारित्रं विशोधयति, सर्वथाऽसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहनीयोदयमलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्व प्राग्वत् (५८)। ६० । ७२ ।
एवं समाधारणात्रयाद् यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत् फलमाहनाणसंपन्नयाए णं भंते० १, २ सबभावाभिगमं जणेइ, नाणसंपन्ने णं जीवे चाउरते संसारकंतारे न विण
सप्ताष्टपश्चाश
॥२४९॥
R
For Private & Personal Use Only
in Education Hic
ainelibrary.org