________________
कायगुत्तयाए णं भंते०१, २संवरं जणयइ,संवरेणं कायगुत्ते णं पुणो पावासवनिरोहं करेइ (५५)। सू०६९।
कायगुप्तिरूपया संवरं-अशुभयोगनिरोधरूपं जनयति, संवरेण गम्यमानत्वात् अभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धX कायिकव्यापारः पापस्य-कर्मण आश्रवा-उपादानहेतवो हिंसादयः पापाश्रवास्तन्निरोधं करोति, तात्त्विक्या अस्या एतत्फलत्वेन प्रतीतत्वात् (५५)। ५७ । ६९। ।
इतश्च गुप्तित्रयाद्यथाक्रमं मनःसमाधारणादिसम्भव इति तदाह
मणसमाधारणयाए णं भंते० १, २ एगग्गं जणेइ, एगग्गं जणइत्ता नाणपजवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निजरेइ (५६)। सू०७०।
मनसः समिति-सम्यक् आडिति-मर्यादया आगमाभिहितभावाभिव्याप्त्या वा धारणा-व्यवस्थापनं मनःसमाधारणा तया, ऐकाय्यं उक्तरूपं जनयति, ऐकाय्यं जनयित्वा ज्ञानपर्यवान्-विशिष्टतरवस्तुतत्त्वावबोधरूपान् जनयति, ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयति, शुद्धत्वं चास्य वस्तुतत्त्वावगमे तद्विषयरुचिरपि शुद्धतरत्वात् , तत एव मिथ्यात्वं निर्जरयति (५६)। ५८।७।
वयसमाहारणयाए णं भंते ?, २ वयसाहारणं दसणपज्जवे विसोहेइ, वइसाहारणं दसणपज्जवे विसोहित्ता सुलहयोहियत्तं च निवत्तेइ दुल्लहबोहियत्तं निजरेइ (५७)। सू०७१।
पञ्चषटूपञ्चाशद्वारे
Sain Educa
For Private & Personal use only
w.antibrary.org