________________
वीतरागतया-रागद्वेषापगमरूपया स्नेहः पुत्रादिविषयः तृष्णा द्रव्यादिविषया तद् रूपाणि अन्विति अनुगतानि अनुकूलानि वा बन्धनानि रागद्वेषपरिणामात्मकानि स्नेहानुबन्धनानि च व्यवच्छिन्नत्ति, अतिदुरन्तत्वख्यापनार्थ च रागान्तर्गतत्वेऽपि तृष्णास्नेहयोः पृथगुपादानं, ततश्च मनोज्ञेषु शब्दस्पर्शरसरूपगन्धेषु विरज्यते, तृष्णास्नेहयोरेव रागहेतुत्वात् , आह-कषायप्रत्याख्यानफलत्वेन वीतरागतोक्तैव तत्किमर्थमस्याः पृथगुपादानं ?, उच्यते, रागस्यैव सर्वानर्थमूलत्वख्यापनार्थम् (४५)। ४७।५९।
रागद्वेषाभावे च तात्त्विकाः श्रमणगुणाः, तेषु चाद्यव्रतपालनोपायत्वात् शान्तिरेव प्रथमेति तामाह
खंतीए णं भंते० १, २ परीसहे जिणेइ (४६)। सू०६०। क्षान्त्या-क्रोधजयेन परीषहान्-अर्थात् वधादीन् जयति-परीषहाध्ययनन्यायतोऽभिभवति (४६)। ४८ । ६० ।
क्षान्तिस्थितेनाऽपि न मुक्तिं विना शेषव्रतपालनं कर्तुं शक्यमिति तामाहमुत्तीएणं भंते०१,२ अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थणिजे भवइ (४७)। सू०६१। मुक्त्या-निर्लोभतया अकिञ्चनभावः-अकिञ्चनं-निष्परिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थे लोला:-लम्पटाः अर्थलोला:चौरादयस्तेषामप्रार्थनीयः प्रस्तावात् बाधितुमनभिलपणीयो भवति (४७)। ४९ । ६१ ।
लोभाविनाभाविनी च मायेति तदवश्यम्भाव्यार्जवमतस्तदाह
- अजवयाए णं भंते ?, २ काउजुययं भावुजुययं भासुज्जययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए उत्सरा०४२णं जीवे धम्मस्स आराहए भवइ (४८)। सू०६२।
षट्सप्तचत्वारिंशद्
द्वारे
Jain Education
honal
For Privale & Personal use only
ainelibrary.org