________________
निष्कषायो योगप्रत्याख्यानादेव मुक्तिसाधक इति तदाह
जोगपञ्चक्खाणेणं भंते १, २ अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बन्धइ पुचवद्धं निजरेइ (३७)। सू०५१। ___ योगाः-मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधलक्षणेनायोगत्वं-वक्ष्यमाणनीत्या अयोगिभावं जनयति, अयोगी च जीवः पूर्वबद्धमिति भवोपग्राहिकर्मचतुष्टयमन्यस्य तदा असम्भवात् तन्निर्जरयति-क्षपयति (३७)। ३९ । ५१ । योगप्रत्याख्यानतः शरीरप्रत्याख्यानमेव स्यात् तदाधारत्वान्मनोवाग्योगयोः, अतस्तत्प्राधान्यख्यापनार्थ तत्प्रत्याख्यानमाह
सरीरपञ्चक्खाणेणं भंते०१, २ सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्ग(भाव)मुवगए परमसुही भवइ (३८)। सू० ५२ ।
शरीरप्रत्याख्यानेन हि सिद्धानामतिशयगुणान् कृष्णो न नील इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वात् बहुव्रीहिस्तद्भावस्तत्त्वं निवर्त्तयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रं-मुनिपदं उपगतः-प्राप्तः परमसुखी-अतिशयसुखवान् भवति (३८)।४।५२।
सम्भोगादिप्रत्याख्यानानि च प्रायः सहायप्रत्याख्याने एव सुकराणि स्युरिति तदाह
सहायपञ्चक्खाणेणं भंते०१, २ एगीभावं जणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभवइ (३९)। सू०५३।
| सप्तत्रिंशतमाष्टत्रिंशत्तमैकोनचत्वारिंशत्तमद्वा
राणि
Jain Educate
national
For Private & Personal use only
प
w
.jainelibrary.org