________________
उत्तरा० अवचूर्णिः
सम्यक्त्व पराक्रमाध्ययनम्
॥२४४॥
जीवो निष्कासो-वस्त्याद्यभिलापरहितः सन् , उपधिमन्तरेण चस्य भिन्नक्रमत्वात् न च सक्तिश्यति-न च मानसं शारीरं वा क्लेशमामोति, उक्तं हि-"तस्स णं भिक्खुस्स नो एवं भवइ परिजुन्ने मे वत्थे सूई जाइस्सामि संधिस्सामि उत्कंसिस्सामि | तुन्निस्सामी"त्यादि (३४)। ३६ । ४८ ।
उपधिप्रत्याख्याता चाहारप्रत्याख्यानमपि कुर्यादिति तदाह
आहारपञ्चक्खाणेणं भंते ! जीवे किं जणेइ १, २ जीवियासंसप्पओगं वुछिदइ ( सविप्पओगं वोच्छि| दिय पा०), जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ (३५)। सू०४९।।
आहारप्रत्याख्यानेन-अनेषणीयभक्तपानत्यागरूपेण, जीविते-प्राणधारणरूपे आशंसा-अभिलाषस्तस्याः प्रयोगः-व्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुष्यजीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छिदैव स्यात्, ततश्च जीविताशंसाप्रयोग विच्छिद्य जीव आहारमन्तरेण न सङ्क्तिश्यति-विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति (३५)।३७॥४९॥ एतच्च प्रत्याख्यानत्रयमपि कषायाभावे एव फलवदिति (तदाह)
कसायपचक्खाणेणं भंते ! जीवे किंजणेइ, २ वीयरायभावं जणेइ, वीयरायभावं पडिवन्नेविय णं जीवे | समसुहदुक्खे भवइ (३६) । सू०५०।
कषायप्रत्याख्यानेन-क्रोधादिनिवारणेन वीतः-विगतो रागः उपलक्षणत्वात् द्वेषश्चास्येति वीतरागस्तभावं जनयति, अपिचेत्यस्य पुनरर्थत्वात् प्रतिपन्नवीतरागभावः पुनर्जीवः समे-रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समदुःखसुखो भवति (३६)। ३८॥५०॥
पञ्चषष्ठत्रिंशत्तमद्वारे
॥२४४॥
Jain Educat
i onal
For Private & Personal use only
Pupinjainelibrary.org