SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ *10-01-01 समिति संकरेण - स्वपरलाभमीलनात्मकेन भोगः सम्भोगः - एकमण्डली भोक्तृत्वमित्यर्थस्तस्य प्रत्याख्यानं - गीतार्थावस्थाया जिनकल्पादिप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि - ग्लानतादीनि क्षपयति- तिरस्कुरुते, सदोद्यतत्वेन वीर्याचार मेवावलम्बते निरालम्बनस्य वाऽऽयतो- मोक्षः संयमो वा स एवार्थः प्रयोजनं विद्यते येषां ते आयतार्थिका योगाःव्यापारा भवन्ति प्रबन्धतः प्रवर्त्तते, तथा स्वकीयेन लाभेन तुष्यति निरभिलाषः स्यात् परस्य लाभं नो तर्कयति -मनसा | यदि मह्यमसौ ददातीति विकल्पयति, नो स्पृहयति, तत् श्रद्धालुतया आत्मन आविष्करोति, नो प्रार्थयति - वाचा मह्यं | देहीति याचत, नोऽभिलषयति - तल्लालसतया वाञ्छति, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, ततश्च परस्य | लाभमनाशायमानः- आशाविषयमकुर्वाणोऽनास्वादयत-अभुञ्जानोऽतर्कयन् अस्पृहयन् अप्रार्थयमानः - अनभिलषन् द्वितीयां सुखशय्यां उपसम्पद्य - प्राप्य विहरति, एवंविधरूपत्वात् अस्याः, इह 'अणासाएमाणे' इत्युत्तरत्र वचनात्पूर्वत्रापि 'नो आसाएइ ' इत्यनुमीयते ( ३३ ) । ३५ । ४७ । सम्भोगप्रत्याख्यानवतश्चोपधिप्रत्याख्यानमपि सम्भवतीति तदाह उवहिपच्चक्खाणं भंते! जीवे किं जणेइ १, २ अपलिमंथं जणेइ, निरुवहिए णं जीवे (निक्कंखे पा० ) उवहिमंतरेण य न संकिलिस्सइ ( ३४ ) । सू० ४८ । उपधेः - रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्योपकरणस्य प्रत्याख्यानं - न मया असौ गृहीतव्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानं तेन, परिमन्थः - स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्त उपधेर्निरुपधिः स एव निरुपधिको Jain Education International For Private & Personal Use Only xoxoxoxoxoxoxoxoxoxxx चतुः त्रिंश तमद्वारम् www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy